________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
सालङ्कारचूडामणौ काव्यानुशासने रसस्य सतः कचिदुपकारिणः, क्वचिदनुपकारिणः, रसाभावे तु वाच्य वाचकवैचित्र्यमात्रपर्यवसिता भवन्ति । - "ये वाचकवाच्यलक्षणाङ्गातिशयमुखेन मुख्यं रसं सम्भविनमुपकुर्वन्ति ते कण्ठाद्यङ्गानामुत्कर्षाधानद्वारेण शरीरिणोऽप्युपकारकाः हारादय इवालङ्काराः" इति वृत्तिः।अलङ्काराश्च गुणा इव न सदा रसोपकारका एव किन्तु वचिदुपकारकाः क्वचिदनुपकारकाश्चेत्याह-ते चेति-अलङ्काराश्चेति भावः । रसस्य सत इतिकाव्योपात्तविभावानुभावादिभिर्लब्धसत्ताकस्य रसस्य[ आनुगुण्येन स्थिताः] कचित् काव्ये उपकुर्वन्ति-साहाय्यकमाचरन्ति, तत्र तदुपकारिणः, क्वचित् यत्र च तद्रसप्रतिकूला अथवा न प्रतिकूला न वानुकूलास्तत्र अनुपकारिणः । यत्र च रसस्य सर्वथाऽभाव एव तत्र चैते स्वाश्रयवैचित्र्यमात्रकर्तार इत्याहरसाभावे तु इत्यादि-वाच्योऽर्थः, वाचकाः शब्दास्तेषां वैचित्र्यं-शोभातिशयः, तन्मात्रे पर्यवसिताः-क्षीणब्यापारा भवन्ति । अयमाशयः-यत्र शरीरे स्वतोऽपि सौन्दर्य तत्रालङ्कारयोगे निरलङ्कारावस्थातः कश्चिदतिशयः प्रतीयत एव, किन्तु यदि त एवालङ्काराः कुस्थानविन्यस्ता भवेयुर्यथा-कर्णयोः कङ्कणं हस्तयोः कुण्डलं तर्हि कथं शोभां जनयेयुः, यत्र चाङ्गी स्वत एव रूपहीनोऽसुन्दरस्तत्रापि ते सन्ति चेत् दृष्टिमात्रवैचित्र्यकरा नान्यत् किमपि प्रयोजनं तेषाम् , एवं सरसे काव्ये आनुगुण्येनोपनिबद्धा अलङ्कारा रसोपकारिणः, आनुगुण्याभावेऽनुपकारिणः, नीरसे चोक्तिमात्रवैचित्र्यावहा इति ।
एवञ्च रसोपकारकत्वे सति तदवृत्तित्वम् , तथात्वे सति रसानियतस्थितिकत्वम् , अनियमेन रसोपकारकत्वं वेति लक्षणत्रयं भवति, गुणमात्रभेदकं तु प्रथमलक्षणमात्रम्, अन्ता-ऽद्यलक्षणयोः सत्यन्तं पदादिदोषातिव्याप्तिवारणाय । कुवलयानन्दटीकायामलङ्कारचन्द्रिकायां तु-"रसादिभिन्नव्यङ्ग्यभिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विषयतासम्बन्धावच्छिन्ना चमत्कृतिजनकतावच्छेदकता तदवच्छेदकत्वमलङ्कारत्वम् , अनुप्रासादिविशिष्टशब्दज्ञानादुपमादिविशिष्टार्थज्ञानाञ्च चमत्कारोदयात् तेषु तादृशचमत्कारजनकतावच्छेदकता तदवच्छेदकत्वमुपमात्वादाविति लक्षणसमन्वयः, शब्दार्थयोर्ज्ञाननिष्ठचमत्कृतिजनकताया विषयितयाऽवच्छेदकत्वेन तद्विशेषणीभूतानुप्रासोपमादेस्तनिष्ठावच्छेदकतावच्छेदकत्वात् , रसवदायलङ्कारसंग्रहाय व्यङ्गयोपमादिवारणाय च भेदद्वयगर्भसत्यन्तोपादानम्"
For Private And Personal Use Only