________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १३ ।
अलङ्काराणां सामान्यलक्षणमाह
अङ्गाश्रिता अलङ्काराः ॥ १३ ॥ रसस्याङ्गिनो यदङ्ग-शब्दाऽौँ, तदाश्रिता अलङ्काराः, ते च तत्स्थानीयरसस्यापि तथात्वमेवोचितमिति, तदपि न-आत्मनो निर्गुणत्वं हि न सर्ववादिसम्प्रतिपक्षम् , मस्तु नाम तथात्वम् , तथापि भारमनि शौर्यादिमत्त्वं यथा व्यवहारदशायामाश्रीयते तथैव माधुर्यादेरप्याश्रयितुं शक्यत्वात् । नन्वयं व्यवहारोऽज्ञानिनामिति वाच्यः, व्यवहारकाले सर्वेषामेव तथात्वस्य ‘पश्वादिभिश्चाविशेषाद्' इति सूत्रेण शारीरके भाष्ये सिद्धान्तितत्वात् । एवं च 'शृङ्गारो मधुरः' इत्यादिव्यवहारोपपत्तये कल्प्यमान उपचारः शब्दार्थयोर्गुणवत्त्वव्यव हारायैव कल्प्यः । उक्तं चैतदष्टमोल्लासप्रारम्भ एव प्रदीपकारैरिति गुणानां रसधर्मत्वे न किमपि बाधकमिति ॥ १२ ॥
काव्यलक्षणसूत्रस्थितयोः 'अदोषौ सगुणौ' इति पदयोरपेक्षिते दोषगुणलक्षणे अभिधाय क्रमप्राप्त सालङ्कारौ' इति पदापेक्षितालङ्कारस्वरूपनिरूपणपरसूत्रावतरणिकामाह-अलङ्काराणां सामान्यलक्षणमाहेति-अलङ्काराः-अनुप्रासयमकादयः शब्दालङ्काराः, उपमादयश्चार्थालङ्कारा वक्ष्यन्ते, तेषां, सामान्यलक्षणंसामान्येन-अलङ्कारत्वेन रूपेण, न तु अनुप्रासत्व-यमकोपमात्वादिविशेषैः, लक्षणं-स्वरूपम् , माह-अग्रिमेण-"अङ्गाश्रिता अलङ्काराः" इति सूत्रेण कथयतीत्यर्थः, तत्तत्प्रातिस्विकरूपेणालङ्काराणां लक्षणस्य काव्यलक्षणघटकालङ्कारपदेनानपेक्षितत्वेनालङ्कारत्वेन रूपेणैवालङ्काराणां तत्रोक्तत्वेन तेनैव रूपेण लक्षणकथनमावश्यकमिति तदेवाहेति भावः । 'अङ्ग-काव्यात्मभूतस्य रसस्योपकारकं शब्दार्थयोरन्यतरत् , माश्रिताः-स्वरूपवाचकत्वादिसम्बन्धेन तत्र स्थिताः, अलङ्काराः-अलङ्कारपदवाच्या इति सूनाथ वर्णयति-रसस्याङ्गिन इत्यादिना । रसस्य शृङ्गारादेः, अङ्गिनः मुख्यस्य, यदङ्गं अङ्गभूतौ व्यञ्जको शब्दार्थों, तदाश्रिताः तन्मात्रस्थिताः, अलङ्कारा इति । एतेन गुणा-ऽलङ्कारयोर्मेंदोपि स्पष्टीकृतः-अङ्गिनमाश्रिता गुणाः, अङ्गमाश्रिताश्चालङ्कारा इति । उक्तं च काव्यप्रकाशे मम्मटाचार्येणापि---
"उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलकारास्तेऽनुप्रासोपमादयः ॥" [८.६७ ] इति का० १०
AAWN
For Private And Personal Use Only