SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ सालङ्कारचूडामणौ काव्यानुशासने तथा शृङ्गार-वीरादिरसेषु कार्यरूपाद् द्रुतिदीप्तिविलासाख्यादन्यत् न किमपि माधुर्यादिरूपमनुभूयत इत्यनुभावात् तेषां रसगुणत्वे किमपि न मानम् । अथोच्यते माधुर्यादिगुणविशिष्टा एव रसा द्रुत्यादीनां कारणानि, [अर्थाद् गुणसहकारादेव द्रुत्यादिप्रयोजकत्वं तेषाम् ] ततश्च कारणतावच्छेदकतया गुणानां माधुर्यादीनां तद्धर्मतयाऽनुमान स्यादिति, तदापि न-शृङ्गारत्वादिरूपेणैव तेषां तत्कारणतास्त्रीकारे लाघवात् । ननु शृङ्गारो द्रुतेः कारणं, शान्तो द्रुतेः कारणं, करुणो द्रुतेः कारणमिति प्रातिविकरूपेण कारणताकल्पनाऽपेक्षया शृङ्गार-करुण-शान्ता द्रुतिकारणानि माधुर्यवत्त्वादित्येक एव कार्यकारणभाव इति लाघवमिति चेत् ? नभवद्भिः शृङ्गारादिरसेषु मधुरतादिगुणानां पृथग्दुतद्रुततरगुततमत्वादिकार्यतारतम्योपगमेन तत्तद्रूपेण कार्यकारणभावनयकल्पनया सह माधुर्यवत्वेन कार्यकारणभावकल्पनाया अधिकत्वात् । किञ्चात्मनो निर्गुणत्वं वेदान्तादिदर्शनेषु प्रतिपक्षमतनिराकरणपूर्वकं सिद्धान्तिमित्यात्मस्थानीयस्य रसस्यापि तथात्वमेवोचितम् । तथा च तदुपाधिभूतरत्यादिगुणत्वमपि न तेषां [माधुर्यादीनां] रत्यादीनां सुखरूपतया स्वतो गुणरूपत्वेन गुणे गुणानङ्गीकारात् । शृङ्गारो मधुर इत्यादिव्यवहारस्तु माधुर्यादीनां द्रुत्यादिप्रयोजकतासम्बन्धकृतः । न चैवमदृष्टादीनामपि द्रुत्यादिप्रयोजकतया मधुरत्वं स्यादिति वाच्यम् , अदृष्टादिविलक्षणाया [असाधारणायाः] प्रयोजकतायास्तत्र स्वीकारात् । एवञ्च द्रुत्यादिचित्तवृत्तिप्रयोजकत्वरूपं माधुर्यादिकं शब्दार्थादीनामपीति स्वतःसिद्ध मिति तदर्थमुपचारकल्पनाऽपि नावश्यकीत्यपरमनुकूलमिति । अत्रोच्यते-गुणत्वं नामोपकारकत्वम् , तथा च सम्बन्धभेदादाश्रयत्वं भिद्यते, तथा चोपकार्योपकारकभावसम्बन्धेन गुणाश्रयत्वं रसानाम् , व्यञ्जकतासम्बन्धेन च तदाश्रयत्वं शब्दार्थयोरिति वयं प्रतीमः । यथा दोषाणां शब्दार्थयोर्विद्यमानानामेव मुख्यार्थप्रतिबन्धकत्वरूपं दोषत्वं, तेन रूपेण रसाद्याश्रितत्वं च सकलवादिसिद्धं तथैव गुणानामपि रसोपकारकत्वेन रसाश्रयत्वं बोध्यम् । यञ्चोक्तंद्रुत्यादिकार्याद भिन्नस्य माधुर्यादे!पलम्भ इति, तदपि नास्माकं प्रतिकूलम् , दाहरूपकार्याद दाहकत्वशक्तेरिव द्रुतिरूपकार्यात् तदनुकूलशक्तिरूपस्य माधुर्यादेः कल्पनीयत्वात् ; न च कार्यकारणभावगौरवं, यतो यथा दाई प्रति वह्नः वह्नित्वेनैव कारणता न तु दाहकशक्तिमद्वृह्नित्वेन तथैव शृङ्गारवादिनैव द्रुत्यादिकारणत्वोपगमे कार्यकारणभावगौरवाश्चावात् । यदुक्तम्-आत्मनो निगुर्णत्ववत् For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy