SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० १२ । १४१ "ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः। उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥ [ उ०८, का० ६६] अर्थ:-अङ्गिनः शरीरेष्वात्मवत् काव्येषु प्राधान्येन स्थितस्य, रसस्य, धर्माःसाक्षात् तदाश्रिताः, उत्कर्षहेतवः-अचलस्थितयो रसादपृथक्वृत्तयः, आत्मनः शौर्यादय इव ये स्युः, ते गुणा इति ज्ञातव्याः। एतल्लक्षणमपि स्वकीयलक्षणतो नातिभिन्नमिति द्रष्टव्यम् ॥ तत्रैव दोषलक्षणं यथा__"मुख्यार्थहतिर्दोषो, रसश्च मुख्यस्तदाश्रयाद्वाच्यः । उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ॥" [उ०८, का०४९] अर्थः-मुख्यार्थस्य हतिः-अपकर्षों यस्मात् स दोष इति दोषसामान्यलक्षणम् । मुख्यः क इति चेदवाह-रसश्च मुख्यः; ननु तर्हि नीरसेषु न कश्चिदू दोषः स्यात् , दूष्यस्याभावादिति चेदवाह-तदाश्रयाद् वाच्य इति-आश्रयणमाश्रयः, तथा च तेन रसेनाश्रयणाद्-उपकारित्वेनापेक्षणाद् वाच्योऽप्यों मुख्यः; न चैवं मुख्यशब्दार्थस्य नानात्वेनाननुगमः, काव्ये प्राधान्येनोद्देश्यप्रतीतिविषयत्वेनानुगमात् ; तदेवं रसवति सर्व एव दोषाः; नीरसे स्वविलम्बितचमत्कारिवाक्यार्थप्रतीतिविधातका एव हेया इति मन्तव्यम् ; नन्वेतयोरेव दोषाधारस्वमुचितं न तु शब्दादीनामित्यत आह-उभयोपयोगिन इत्यादि-अत्र शब्दपदमर्थप्रतिपादनात्मकव्यापारवतोः पद-वाक्ययोर्वर्तते, तेनाद्यपदाद् वर्ण-रचने संगृहीते इति प्रकाशकारस्त्ररसः; न च तत्र बीजाभावः, अन्यथा वर्णस्यापि शब्दपदेनैव प्राप्तो शब्दाद्या इति बहुवचनस्यासंगत्यापत्तेः, तथा च पद-वाक्य पदांश-रचनाः 'शब्दाद्याः' इत्यनेन ग्राह्याः, ते चोभयोपयोगिनः-रसवाच्यार्थयोरुभयोरुपकारकाः-उभाभ्यामप्यपेक्षिताः, तेन तेष्वपि स इति, यथा काणत्वखात्वादयस्तत्तदङ्गधर्माः साक्षादङ्गेष्वाश्रिता अङ्गिनमेव दूषयन्ति तथा सरसे काव्ये तत्तदनेषु स्थितास्ते रसम् , अन्यत्रअसति [ रसे ] वाच्यमर्थ चोद्देश्यप्रतीतिविषयतया स्थितं दूषयन्तीति मुख्यार्थहतिकारकत्वं तेषां न हीयते; इति काव्यप्रकाशकृत आशयः । स्वमते च दोषाणां केवलं रसदूषकत्वमेवेति रसाश्रितत्वमेव, तदुक्तमानन्दवर्धनाचार्येणापि mwww For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy