________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
सालङ्कारचूडामणौ काव्यानुशासने
"श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः। ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः ॥” इति ।
1 [ध्वन्या० उ० २, श्लो० ३४] तथा च शृङ्गारध्वनिमात्रे तेषां दोषत्वमिति रसमात्रदूषकत्वं स्पष्टम् । न च तर्हि पदादिदोषाः स्वमतेऽपि कथं वर्णिता इति वाच्यम् , रसस्यात्मभूतस्य तत्तदङ्गद्वारेव दोषाश्रयतासम्भवात् , तथा च पदायगावच्छेदेनाऽपि विद्यमाना दोषा अङ्गिनो रसस्यैव दूषका इति तद्दोषतयैव गणनीया इति हृदयम् । गुणानां च रसैकधर्मत्वं काव्यप्रकाशकृद्भिरपि स्वीकृतमेवेति गुण-दोषयो रमधर्मत्वं सिद्धम् ।
नरेन्द्रप्रभसूरिणाऽप्यलकारमहोदधौ दोषाणां गुणानां च रसमात्रवृत्तित्वमुक्तम् , तथा हि
"वैचित्र्यब्याहतिर्दोषः सा च भूम्ना रसक्षतेः ।
तद्भुव रस एवैष, भक्त्या शब्दार्थयोः पुनः ॥" [पञ्चमे तरङ्गे १] अर्थः-वैचित्र्यस्य-सहृदयानन्दिनः सौन्दर्य विशेषस्य, व्याहतिः-विलोपः, दोषः, सा च वैचित्र्यव्याहतिः, भूम्ना-बाहुल्येन रसक्षतेः-रसहानेर्जायते, तत्तस्मादेष-दोषः, रसे एव, शब्दार्थयोः पुनस्तयोर्व्यवहारः कथमित्याह-भत्त्येतिउपचारेण शब्दार्थयोस्ते उच्यन्ते न तु मुख्यया वृत्त्येति । तथा---
शौर्यादय इवात्मानं रसमेव श्रयन्ति ये । गुणास्ते सहजाः काव्ये नित्यवैचित्र्यकारिणः ॥
[अ० म० त० ६ का..] 'शौर्यादय आत्मानमिव ये रसमेव श्रयन्ति ते गुणा' इत्युक्त्या रसमात्रधर्मत्वं गुणानामिति स्पष्टमेव । एवं साहित्यदर्पणेऽपि प्रथमे परिच्छेदे
"[वाक्यं रसात्मकं काव्यं ] दोषास्तस्यापकर्षकाः । (२)
उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः ॥” (३) इति ग्रन्थव्याख्यायां-श्रुतिदुष्टापुष्टार्थत्वादयः काणत्वखञ्जत्वादय इव शब्दार्थद्वारेण देहद्वारेणेव, व्यभिचारिभावादेः स्वशब्दवाच्यत्वादयो मूर्खत्वादय इव
For Private And Personal Use Only