SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४० Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणी काव्यानुशासने यस्याङ्गिनस्ते दोषास्तदभावे न दोषास्तद्भावे तु दोषा इत्यन्वयव्यतिरेकाभ्यां गुण-दोषयो रस एवाश्रयः ॥ एवं "वक्तरि क्रोधसंयुक्ते, तथा वाच्ये समुद्धते । रौद्रादौ च रसेऽत्यन्तं दुःश्रवत्वं गुणो भवेत् ॥ ८ ॥ 59 तथा "सुरतारम्भ गोठ्यादावश्लीलत्वं तथा गुणः । मपरिच्छेदेऽपि दोषाणां क्वचिद् रसे गुणत्वमुक्तम् । अयमत्र सारः - यो दोषो यं रसं सन्तं तदीया स्वाद्यतालक्षणस्वरूपं विघटयन् दूषयतीति दोषतया ख्यातः स एव चेदन्यत्र रसस्यास्वादं न प्रतिबध्नाति तदा तत्र तस्य न दोषता, यथा विप्रलम्भशृङ्गाररसे “प्रससार शनैर्वायुर्विनाशे तन्वि ते तदा" इत्यत्र वायुशब्दोऽपानवायुरूपालीलार्थस्मारकतयाऽश्लीलत्वेन दोषः, किन्तु तदेवाश्लीलत्वं सुरतारम्भगोष्ठयां "द्वयथैः पदैः पिशुनयेच्च रहस्यवस्तु " इति कामशास्त्रानुसारं 'करिहस्तेन संबाधे प्रविश्यान्तर्विलोडिते । उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते ॥” इति बालायाः सुरतोपायस्य द्वयथैः पदैः वर्णनप्रसङ्गे साधनादिशब्दप्रयोगेण प्रतीयमानमपि काव्यजीवानुभूतशृङ्गाररसास्वादं न प्रतिबनातीति तस्य न दोषत्वमित्येव न प्रत्युत गुणत्वं मन्यन्ते आलङ्कारिकाः । ततश्च शब्दार्थयोर्दोषस्य सत्त्वे स्वीकृते रसभेदेन समाना कारकशब्दप्रयोग एव दोषत्वमदोषत्वं चेत्युभयमपि न स्यात्, भवति च तथेति दोषाणां नित्यत्वाऽनित्यत्वव्यवस्थाsप्युपपद्यते, तदाह- अनित्याश्चैते दोषा इति एते कष्टत्वादयो दोषाः, अनित्याः - न सर्वदा दोषतामेव भजन्ते, कचिगुणताया अपि तेषु दृष्टत्वात् । अयमाशयः - द्विविधो दोषो नित्योऽनित्यश्च तत्रानुकरणादन्येन प्रकारेण समाधातुमशक्यो नित्यः, यथा - च्युतसंस्कारादिः । तद्भिन्नस्त्वनित्यः, यथा - कष्टत्वादिः । अनित्यत्वे कारणमाह-यतो यस्याङ्गिनस्ते इत्यादिना - यतः कारणात् यस्याविनो रसस्य ते दोषाः - विघातकाः, तदभावे - तद्वसभिन्नरसे, नीरसे वा, ते न दोषाः; मुख्यार्थप्रतीतिविघातकत्वरूपदूषकताभावात् इति अन्वयव्यतिरेकयो ईष्टतया दोषा रसाश्रया रसमात्रदूषकाः, दोषाणां च गुणसमनियतत्वस्वाभाव्येतेषां [ दोषाणां ] रसाश्रितत्वे पूर्वोक्तयुक्तया निर्णीते गुणा अपि रसाश्रया एव । उक्तं च गुण-दोषयो रसधर्मत्वं काव्यप्रकाशकृता मम्मटेनापि, तथा हि 3 " - wwwwwwwwwww For Private And Personal Use Only इति साहित्यदर्पणे सप्त wwwwwwwwww
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy