________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १२। १३९
raaraamarrrrrrrrrrrrrrrrrrr योरुच्यन्ते, रसाश्रयत्वं च गुण-दोषयोरन्वय-व्यतिरेकानुविधानात्। तथाहि यत्रैव दोषास्तत्रैव गुणाः, रसविशेषे च दोषा न तु शब्दाऽर्थयोः, यदि हि तयोः स्युस्तद्वीभत्सादौ कष्टत्वादयो गुणा न भवेयुः, हास्यादौ चाश्लीलत्वादयः । अनित्याश्चैते दोषाः, यतो चेत् ? अत्राह-रसाश्रयत्वं च गुणधर्मयोरित्यादि । अन्वय-व्यतिरेकानुविधानादिति-तत्सत्त्वे तदितरयावत्कारणसत्त्वे च तत्सत्वमन्वयः, एवं तद्वयतिरेके तदितरयावस्कारणसत्त्वेऽपि तदभावो व्यतिरेकः, यथा दण्डसत्त्वे दण्डेतरघटीययावत्कारणमृदादिसत्त्वे घटसत्त्वं, दण्डासत्त्वे दण्डेतरयावदुक्तकारणसत्त्वेऽपि घटासत्वमिति दण्डान्वयव्यतिरेकानुविधानात् घटं प्रति दण्डकारणम् , तथा रससत्त्वे गुणादिसत्त्वम्, रसाभावे रसेतरयावत्कारणसत्त्वेऽपि गुणाभावेन गुणानां रसप्रतिबद्धयोरन्वयव्यतिरेकयोरनुविधायित्वमनुवर्तित्वं दृष्टमिति तेन तेषां रसाश्रयत्वं निश्चीयते । तदेवान्वयव्यतिरेकानुविधानं स्पष्टयति-तथाहीत्यादिना-तथाहि-तदेव प्रदर्यत इत्यर्थः । यत्रैव दोषास्तत्रैव गुणा इति-यस्यैव दोषयुक्तत्वं तस्यैव गुणवत्त्वमपि युक्तमिति भावः । दोषाणां रसवृत्तित्वमाह-रसविशेषे च दोषा इति-दोषाणां रसप्रतीतिविघातकत्वस्यैव लक्षणे. नोक्ततया रसविशेष एव दोषविशेषाणां दोषत्वं सामान्यतो रसेषु दोषाणाम् । तदेव रसविशेषप्रसिद्धं दोषत्वं स्फुटयति-यदि हीत्यादिना-हि-यतः, तयोः शब्दार्थयोः, यदि दोषाः स्युः, तत् तर्हि बीभत्सादौ रसे [आदिपदेन रौद्रसंग्रहः ] कष्टत्वादयः दोषाः, गुणा न भवेयुः गुणत्ववत्तां न गच्छेयुः, एवं हास्यादौ रसे च, अश्लीलत्वादयः दोषा गुणा न भवेयुरिति सम्बन्धः । अयमाशयः-यदि दोषाः शब्दार्थयोः स्युस्तहि शृङ्गारे दोषतया प्रसिद्धाः कष्टस्वादयो बीभत्सादौ गुणत्वेनोक्ता न भवेयुः, एवं वीरादिरसेषु दोषतया परिगणिता अश्लीलत्वादयो हास्यादौ गुणतां न भजेयुः, एवं दुःश्रवत्वादयो दोषाः प्रतिपाद्यप्रतिपादकवशात् क्वचिद् गुणतां न गच्छेयुः, दृश्यते चैषां तत्र तत्र गुणत्वम् , स्वीकृतं च काव्यप्रकाशादिकृगिरपि-"वक्राद्यौचित्यवशाद् दोषोऽपि गुणः क्वचित् क्वचिन्नोभौ" । उ० ७. का. ५९] इति कारिकाव्याख्यायाम्-"तत्र वैयाकरणादौ वक्तरि प्रतिपाये च, रौद्रादौ च रसे व्यङ्गये कष्टत्वं गुणः" इति ।
For Private And Personal Use Only