SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने दोषाः,ते च रसस्यैव धर्माः, उपचारेण तु तदुपकारिणोः शब्दाऽर्थ लभ्यते, अत एव च लक्षणे [गुणस्य ] रसाव्यभिचारितत्वमुक्तम् , दोषलक्षणेऽपि च रसस्थापकर्षत्वं तदीयप्रतीत्यादिविघातकत्वमिति रसघटितमेव लक्षणमुक्तम् । ननु दोषाणां रसस्य उत्पद्यमानस्य ? उत्पन्नस्य वा ? अपकर्षकत्वम्, नायःश्रुतिकटुत्वप्रतिकूलवर्णस्वादिदोषाणामुत्पन्ने एव रसेऽपकर्षत्वेन तेषामसंग्रहः स्यात्, न द्वितीयः-च्युतसंस्कारतादिदोषाणामुत्पत्तावेव प्रतिबन्धकत्वेन तेषामसंग्रहापत्तेः, एवं चोभयथा दोष इति चेत् ? न-अत एवापकर्षपदेन प्रतीतिविघातस्योक्तत्वात् , काव्यस्योद्देश्या प्रतीतिः, सा च-रसवती, अविलम्बिता, अनपकृष्टरसविषया च, नीरसे तु अविलम्बिता चमत्कारिणी प्रतीतिरुद्देश्या, तादृशप्रतीतिविघातकत्वं तु सर्वेषां दोषाणामविशिष्टम् । इयं च दोषाणां रसप्रतीतिविघातकता क्वचित् साक्षात् , यथा रसदोषाणां स्वशब्दवाच्यत्वादीनां, क्वचित् परम्परया, यथा शब्दार्थवर्णरचना दोषाणाम् । ननु गुणानां रसमात्रधर्मत्वे 'मधुरा वर्णाः' इति व्यवहारो वर्णानां माधुर्यधर्मवत्वप्रत्यायकः कथं संगच्छेत, वर्णितं च वामनादिभिः-"ओजः-प्रसादादीनां बन्धगुणत्वम्" [वामनालं. अधि० ३, अ० १, सू० ४ ] इति चेत् ? न-औपचारिकत्वेन तेषां व्यवहाराणां संगमनात् , यथा 'यजमानः प्रस्तरः' इत्यत्र दर्भमुष्टिरूपप्रस्तरस्य यजमानवद् यागक्रियासाधनत्वसाम्याद् यजमानत्वोपचारस्तस्यापि हविरासादनादिद्वारा यागसाधनत्वात् , निरूपितं चैतत् ताण्ड्यब्राह्मणे [६७१७] तथा रसगतमपि माधुर्य तत्समर्पकार्थाश्रयत्वेन वर्णेषु भारोप्य 'मधुरा वर्णा' इत्यादिरूपेणोपचरन्तीति मन्तव्यम् ; तदुक्तम्-उपचारेण तु तदुपकारिणोः शब्दार्थयोरिति-तदुपकारिणोः-रसप्रतीतावुपकारजनकयोः शब्दार्थयोर्गुणवत्त्वोक्तिस्तु उपचारेण रसधर्माणां तेषां तत्रारोपेणेत्यर्थः, उपचारप्रकारश्च पूर्वमभिहित एव, यथा शौर्यादिगुणानामात्मधर्मत्वं सकलवादिसम्मतमप्याकार महत्त्वादेस्तदभिव्यञ्जकस्य कचिदशूरेऽपि दर्शनाद् 'आकार एवास्य शूर' इति शौर्यादिकमाकारे उपचर्यते तथैवेति भावः । ननु उपचारस्तदा स्वीकार्यों यदि रसैकधर्मत्वं तेषां कचित् केनचित् प्रमाणेन प्रमितं स्यात् , न च तथा दृश्यतेऽत उपचारकमपहाय तद्धर्मत्वमेव तेषां कुतो नाश्रीयते इति For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy