________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० ११।
१३५
यथा
शून्य वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनैनिद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युमुखम् । विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली निरलङ्कारस्यापि काव्यत्वमाह यथा-शून्यं वासगृहं विलोक्येत्यादिनायिकारब्धबाह्यसम्भोगवर्णनमिदम् । वासगृहं भोगागारं, "भोगागारं वासगृहम्" इत्यमरः [२.२.८] शून्यं जनान्तररहित, विलोक्य जनान्तर. सहिते हि गृहे प्रियेण सहकस्मिन् शयने स्थितिरेव न स्यादिति वासगृहस्य जनान्तररहितत्वनिश्चयेऽपि कदाचिनिभृतसखीस्थितिः संभाव्यतेति पुनरपि विशेषेण दृष्ट्वा, शयनात् तल्पात् , किञ्चित् अपरकायेनैव, न तु सर्वाङ्गण, तथा सति हि शय्याया अधिकान्दोलने सुप्तत्वेन ज्ञातस्य पत्युर्निद्राभङ्गः सम्भाव्यते, अपरकायमात्रोत्थापने च कदाचिन्निद्राच्युतावपि स्वस्यास्योद्यमस्य पार्श्वपरिवर्तनार्थत्वस्योपपादयितुं शक्यत्वादिति भावः; शनैः मन्दम्, इदमपि निद्राभङ्गभीतिज्ञापनायैव, निद्राभङ्गे हि समीहितचुम्बनालाभ इति शङ्का; उत्थाय अपरकायमुन्नमय्य, चेष्टायाः परीक्षणार्थम् , निद्रायाः- स्वापस्य, व्याज-मिषम् , न तु वास्तविकी निद्रामिति भावः, उपागतस्य प्राप्तस्य, न हि तस्यातृप्तस्य-उद्वेलमनोरथसनाथस्य वास्तविकी निद्रा सम्भवत्यपि; पत्युः स्वस्वामितया निर्णीतस्य, न तु प्रियस्य, प्रथमसमागमेनाजातपरिचयात् प्रियत्वबुद्धेरनुदयात्, मुखं आननम् , सुचिरं सर्वावान्तरावयवसमीक्षापूर्वकं बहुकालपर्यन्तम् , निर्वर्ण्य मनसैव साधुतया व्याख्याय, यावता कालेन निद्रायाः परीक्षा, अनुरागोदयश्चाभूदिति भावः, विस्रब्धं विश्वस्तभावेन, जनान्तरशून्यतया गृहस्य पूर्वमेव निश्चयः, पत्युश्च स्वापस्य सत्यत्वपरीक्षैतत्कालपर्यन्तमपि निद्राभङ्गचेष्टाया अदर्शनाजातैवेति निःशकं स्वव्यापारे प्रवृत्तिरुचितैवेत्यर्थः, परिचुम्ब्य परितः-कपोलयोनयनप्रान्तयोश्च चुम्बनं कृत्वा, गण्डस्थली कपोलस्थलीम् , जातपुलका उद्भिन्नरोमाञ्चामालोक्य, यद्यपि प्रेयसीकर्तृकचुम्बनजातस्मरविक्रियाप्रभवः पुलकोदमो न केवलं कपोलयोरेव, किन्तु सर्वाङ्गीणः सम्भाव्यते, तथापि नायिकायाः मुखमात्रदर्शनव्यामृताया अङ्गान्तर
For Private And Personal Use Only