________________
Shri Mahavir Jain Aradhana Kendra
१३६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने
लज्जा नम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ १ ॥ [अ. श. ८२ ]
जातरोमाञ्चोद्गमा दर्शन मिति भावः । लज्जते--त्रपते इति लज्जा पचादित्वादच् इदं पृथक् पदम् अत एव चुम्बनाऽऽलोकनयोर्लज्जनक्रियया समानकर्तृकत्वेन यदुपपत्तिः; अत एव नम्रमुखी पूर्वत एव नम्रीभूतानना, न तु नमितमुखी, मुखनमने साध्वसविह्वलतया कामाकुलतया च शक्तेरभावात्, बाला मुग्धा, अतश्च लज्जाधिक्यस्यौचित्यम्; हसता 'पूर्वं मया प्रार्थिताऽपि कटाक्षवीक्षणेऽपि कृपणतामेव कृतवती, इदानीं कियत् प्रगल्भसे' इति सर्वं मयाऽवबोधीति स्मयमानेन, प्रियेण चातुर्येण भावोदयावसरप्रदानपर्यन्तं निद्राव्याजमुपेत्य, नायिकाया हृदये स्वीयं रसविशारदत्वं प्रकाशितमितीतः पूर्वं पतिमात्रतया ज्ञातेनापि सम्प्रति हृदयेश्वरेण चिरं बहुकालपर्यन्तं सम्भोगस्वीकारं लज्जापगमं वा यावदित्यर्थः, चुम्बिता, सवृद्धिमूलधनप्रत्यर्पणस्य कृते वा प्रतिकर्तव्यत्वस्यौचित्यादिति भावः ॥
2
अत्र शून्यमित्यनेनोद्दीपनातिशयः, वासगृहमिति स्वक्- चन्दनादिसामग्रीसद्भावद्योतनेन मनःप्रसादः पत्युरिति युक्ते स्थानेऽनुरागोदयः, विस्रन्धमिति रागातिशयकृता विमृश्यकारित्वम्, नम्रेति मुखस्य स्वतो नम्रतयाऽनुरागोदयजन्मा वैयात्यप्रसरः, चिरं चुम्बितेति नायकस्य स्नेहोदयप्रकर्षश्च व्यज्यते । अन्न नायकालम्बनकः शून्यगृहाद्युद्दीपनकः, मुखनिर्वर्णन चुम्बनाद्यनुभावकः, लज्जाहासादिव्यङ्ग्यहर्षादिव्यभिचारिभावकः, नायिकाहृदयावस्थरतिस्थायिकः, तज्ज्ञे सामाजिके शृङ्गारो रसः । अत्र न स्फुटः कोऽप्यलङ्कारः, रसस्य च प्राधान्यान्नालङ्कारता, इतररसोपकारकत्वरूपेऽन्योत्कर्षकत्वरूपे वाऽप्राधान्य एव रसस्यालङ्कारत्व स्वीकारात् । तदिदं पद्यमलङ्कारविरहितमपि साधु काव्यम् । लज्जा -हासयोर्व्यभिचारिभावयोः स्वपदोपात्तत्वरूपो दोषस्तत्राप्यसत्कल्प एव, रसप्रतीतिविघावासमर्थत्वात् उत्कटदोषस्यैव तथात्वापगमस्य पूर्वमुक्तत्वादित्यलम् ॥
काव्यलक्षणे निरुक्ते दोषाभावो गुणसत्ता च प्रविष्टा, तत्र किं दोषत्वं किं वा गुणत्वमिति विज्ञानं विना दोष- गुणयोः स्वरूपं परिचेतुमशक्यमिति गुणस्य
For Private And Personal Use Only