SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ सालङ्कारचूडामणौ काव्यानुशासने " काव्यस्वं न निवार्यते कश्चिश्च स्फुटे रसेऽनुस्कटे च दोषेऽलङ्कारवैधुर्येऽपि काव्यत्वं न हीयत इति सूचकः सूत्रघटकश्चकार इति । 'निरलङ्कारयोरपि' इत्युक्त्या चालङ्काराणां स्थित्यभावस्य यथाकथञ्चित्काव्यत्वविधाताऽप्रयोजकत्वेऽपि गुणस्थितेरवश्यापेक्षणीयत्वमिति प्रतिपादितम् । तथा चालङ्काराभावेऽपि गुणबाहुल्ये सति काव्यं स्वदते, यथा-शून्यं वासगृहमित्युदाहियमाणे पद्ये, अत्र हि न कश्चित् शब्दनिष्ठोऽर्थनिष्टो वाऽलङ्कार इति स्पष्टम् | अलङ्कारयुक्तमपि गुणशून्यं च काव्यं न स्वदते, यथा " स्तनकर्पर पृष्ठस्था वार्जिनीछदमण्डकाः । । भावः, वियोग युष्मणा पक्काः कन्दुकिन्येव ते स्त्रिया ॥” इति [ ] पद्ये । अस्यार्थः – स्तनावेव कर्परौ - कपालौ, तण्डुलादिभर्जनसाधनभूतौ भ्राष्ट्राविति तयोः पृष्ठे - उपरिभागे, तिष्ठन्तीति तादृशाः, स्तनयोरुपरि विन्यस्ता इत्यर्थः, ते - पूर्वस्थापिताः, वारि-जले, जायत इति वार्ज कमलम्, तद्स्त्यस्यामिति वार्जिनी कमलिनी, तस्याश्छदानि - पत्राण्येव, मण्डकाः पिष्टक विशेषाः, कन्दुः- भर्जनपात्रं, तदेव कन्दुकम्, तदस्त्यस्याः सा कन्दुकिनी भ्राष्ट्रस्वामिनी तण्डुलादिभर्जनेन जीविकावती, अथवा कन्दुकं - भ्राष्ट्रमस्त्यस्यामिति कन्दुकिनी चुल्ली, तयेव तत्सदृशया, स्त्रिया, वियोगस्य योऽग्निः - वियोगजसन्तापरूपो वह्निः, तस्योष्मणा - सन्तापेन, पक्काः पचनकर्मीकृताः । अयमाशयः - यथा चुल्लघुपरि स्थापित भ्राष्ट्रस्थाः पिष्टकालया अग्निद्वारा पच्यन्ते, तथा वियोगजन्यदाहापनयनाय स्तनयोरुपरि स्थापितानि कमलिनीदलानि स्त्रिया वियोगजसन्तापवह्निजन्योष्मणा पक्कतां नीतानीति । अत्र पद्ये 'स्तनकर्पर' इति स्तनयोः कर्परेण सह रूपकम्, वार्जिनीछदानां मण्डकैः सह वियोग एवाग्निरिति विग्रहे च तन्त्रापीति रूपकत्रयपरिपुष्टः कन्दुकिन्येवेत्युपमालङ्कारः । तथा चालङ्कारद्वयसत्त्वेऽपि गुणाभावान्नेदं काव्यं चारुतामावहतीति । उक्तं च ध्वनिकारेणापि - ""सानुगुणार्थविशेषनिबन्धनमलङ्कारविरहेऽपि च्छायातिशयं पुष्णाति यथा www " मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः । roat दियौ तौ मत्स्य- कच्छपौ ॥" 'अत्र ह्यद्भुतरसानुगुणमेकचुलुके मत्स्यकच्छपदर्शन छायातिशयं पुष्णाति' इति, नीरसे तु यदि न स्फुटोऽलङ्कारस्तर्हि किंकृतश्चमत्कारः स्यात् । For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy