SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू०११। १३३ W चकारो निरलङ्कारयोरपि शब्दार्थयोः क्वचित् काव्यत्वख्यापनार्थः। [८] "शब्दार्थयोर्यथावत् सहभावेन विद्या साहित्यविद्या" इति राजशेखरः, [का० मी० भ० ३.] [९] "अदोषौ सगुणौ सालकारौ च शब्दार्थों काव्यम्" इत्याचार्यहेमच. न्द्रसूरिः । [ का० शा० प्र० अ० सू० ११] एवं निरूपितानि स्वरूपत उभयत्र काव्यत्वस्य पक्षपातिनामपि लक्षणानि । एषां युक्ताऽयुक्तत्वविचारस्तत्तत्पदनिवेशप्रयोजनादिविचारपूर्वक इह कर्तुमशक्यः । काव्यविषये आत्मत्वेन येन यद् वस्तु निरूपितं, तेन तस्थितिस्तत्र लक्षणे सन्निवेशिता । तत्रायं निष्कर्षः-यत्र कुत्रापि लक्षणे रसः, रीतिः, वृत्तिः, लक्षणम् , औचित्यम् , वक्रता, गुणाः, अलङ्काराः, इत्यादयो येऽर्था विवक्षितास्ते चमत्कारजनकतयैव काव्यलक्षणे समावेशिताः, तत्रापि चमत्कारजनने केचिदर्थविशिष्टं शब्दं व्यापारयन्ति, केचित् शब्दार्थों, केचित् पुनः शब्दमात्रम् , अर्थमानं त्ववलम्ब्य चमत्कारस्य समर्पण नोपपद्यते, अर्थस्य शब्दोपस्थापनानियमात् । एवमेव केवलैरथै श्चमत्कारस्य जननं तु न कस्यापि काव्यतयाऽभिमतमिति सहृदयानां न परोक्षम् । तथा च शब्दव्यापारोऽवश्यमपेक्षणीयः, शब्दमात्रस्य च काव्यता यथा न युक्ता तथोपपादितमेवाधस्तादर्थविषयकदोषादीनामनिरूपणताप्रसङ्गादिदोषैः । तथा च शब्दार्थों सहितावेव काव्यम् , एतन्मूलकमेव च काव्यप्रबन्धानां सहितस्य भावः साहित्यमिति समाख्येत्यलं विस्तरैः । एतावता 'निर्दोषयोः सगुणयोः सालङ्कारयोः शब्दार्थयोः काव्यत्वम्' इति निर्णीतम् , एवं च निरलङ्कारयोस्तयोः काव्यत्वं न स्यात् , विशेषणाभावप्रयुक्तविशिष्टाभावेन लक्षणासंघटनात्, इति मनसि निधायाह-चकारो निरलङ्कारयोरपीति-तथा चान्वाचयवाची चकार इति भावः, निरलङ्कारत्वं च स्फुटालङ्काराऽस्फुटालङ्कारोभयशून्यत्वम् , तादृशयोरपि शब्दार्थयोः कचित् सति रसादिवस्तुन्यसति च दोषे काव्यस्वमस्तीति ख्यापनमर्थो यस्य तादृशश्चकार इत्यर्थः । अयमाशयः-सर्वथा निर्दोषे गुणिनि च शब्दार्थयुगले सति चालङ्कारे काव्यत्वमव्याहतमेव, सत्यपि दोषे तस्यानुस्कटत्वे गुणाऽलङ्कारसद्भावे च For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy