________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
सालङ्कारचूडामणी काव्यानुशासने
ननु लोकोत्तरत्वस्याप्यननुगतत्वेन, घटमानयेति वाक्ये तमास्तीति कथं प्रतीयेतेति चेत् ? न-लोकोत्तरत्वमाह्लादगतश्च मत्कारत्वापरपर्यायोऽनुभवसाक्षिको जातिविशेष इत्यनुगमसम्भवात्, अनुभवश्च सहृदयानामेवेति न दोषः । इत्थं च चमत्कारजनकभावविषयार्थप्रतिपादकशब्दत्वं काव्यत्वमिति फलितम् । इत्थं संक्षेपेण शब्दमात्रस्य काव्यत्ववादिनां मतानि ।
अथ शब्दार्थोभयस्य काव्यत्ववादिनश्चैते-
www
www
[१] " शब्दार्थों सहितौ काव्यम्" इति भामहः । [ भामहाल. १,१६ ] [ २ ] शब्दार्थों काव्यम्” इति रुद्रटः । [ रुद्रटालं. २.१. 1 अनेन शब्दस्येवार्थस्यापि कविकर्तृका विलक्षणानन्ददायिनी सृष्टिरित्युक्तम् । [ ३ ] गुणाऽलङ्कारसहितौ शब्दार्थों दोषवर्जितो काव्यम्" इति प्रतापरुद्रीये । [ ४ ] " तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः कापि " इति मम्मटः [ का० प्र० १.४. ]
wwwww
wwww
wwwww
[५] " काव्यं शब्दार्थवैचित्र्ययोगः सहृदयप्रियः । यस्मिन्नदोषत्व- गुणालङ्कृति-ध्वनयः स्थिताः ॥ " इति नरेन्द्रप्रभसूरिः [ अलङ्कारमहो० १.१२]
सहृदयप्रियशब्दवैचित्र्यार्थवैचित्र्ययोगस्य दोषाभाव- गुणालङ्कारध्वनिसहितस्य काव्यत्वमित्यर्थः ॥
[६] " साधुशब्दार्थसन्दर्भ गुणाऽलङ्कारभूषितम् । स्फुटतिरसोपेतं काव्यं कुर्वीत कीर्तये ॥"
इति वाग्भटः [ वाग्भटालं० १, २. ] साधुः - दोषरहितः शब्दार्थयोः सन्दर्भः
wwwwww www.www
ग्रन्थनं यत्र तत्, गुणैरलङ्कारैश्च भूषितम्, स्फुटा - स्पष्टा रीतिर्यस्मिंस्तत्, रसेन युक्तं च काव्यं कीर्तये कुर्वीतेति । अत्र काव्यस्य स्वरूपफले सहवोक्ते ।
,
[७] " शब्दार्थौ सहितौ वक्रकविन्यापारशालिनि ।
बन्धे व्यवस्थितौ काव्यं तद्वदाह्लादकारिणि ।”
इति वक्रोक्तिजीवितकारः । वक्रव्यापारयुक्ते सहृदयाह्लादकारिणि बन्धे व्यवस्थित शब्दार्थों सहित काव्यमिति तदर्थः ।
wwwwwwwww
For Private And Personal Use Only