________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० ११ १३१ [२] “शरीर तावदिष्टार्थव्यवच्छिन्ना पदावली" इति काव्यादर्श [ १.१० । दण्डी, तावदिति वाक्यालकारे, इष्टाः-सरसमनोहरतया वर्णयितुमभिलषिता येऽर्थाः-कविप्रतिभोल्लासविषयीभूताः सुन्दराः पदार्थाः, तैः, विशेषेण अवच्छिन्नापरिपूर्णा, चमत्कृतिविशेषबहुलेत्यर्थः, पदावली-पदसमूहः, शरीरं-काव्यशरीरम् । पूर्वलक्षणसमानमेवैतल्लक्षणमपि ।
[३] पीयूषवर्षजयदेवस्तु “निर्दोषा लक्षणवती सरीतिर्गुणभूषिता । सालङ्काररसानेकवृत्तिर्वाकाव्यनामभाक् ॥" [चन्द्रा० म.१. श्लो. ७ ], अनेन दोषरहिता गद्यपद्यादिलक्षणलक्षिता रीति-गुणाऽलङ्कार-रस-सहिता, अनेकवृत्तियुक्ता वाक् काव्यमित्यभिहितं भवति ।
[४] अतिप्राचीनः शौद्धोदनिराचार्यः "काव्यं रसादिमद् वाक्य, श्रुतं सुखविशेषकृत्" इति वदन रसादियुक्तवाक्यरूपशब्दमात्रे काव्यत्वं मनुते ।
[५] केशवमिश्रेणापि पूर्वमतवत् "रसाऽलङ्कारान्यतरशालिवाक्यत्वं काव्यत्वम्" इत्यभिहितम् , पूर्वलक्षणस्थादिपदेनालङ्कारः परिगृहीतोऽनेन ।
[६] "वाक्यं रसात्मकं काव्यम्" इति विश्वनाथकविपञ्चाननः । [सा. द. प्र. प. १] रसः स्वात्मा-साररूपत्वेन जीवनाधायको यत्र तादृशं वाक्य-सन्दभविशेषः काव्यमिति तदाशयः ।
[७] "ध्वन्यात्मकं वाक्यं काव्यम्" इति महिमभट्टः ।
[6] "रमणीयार्थप्रतिपादकः शब्दः काव्यम्" इति पण्डितराजजगनाथः [रसगं० प्र० आ० १] रमणीयस्य लोकोत्तरचमत्कारकारिणोऽर्थस्य, प्रतिपादक:-बोधकः, शब्दः काव्यमिति, रमणीयार्थप्रतिपादकत्वं च कटाक्षादावपीति तद्वारणाय शब्दः इति विशेष्यनिर्देशः,रमणीयलक्ष्यव्यङ्गयार्थयोरपि संग्रहाय वाचक इत्यनुक्त्वा प्रतिपादक इत्युक्तम् , 'रमणीय' शब्दप्रतिपादके व्याकरणादिशास्त्रेऽतिव्याप्तिवारणाय अर्थति, घटमानयेत्यादिवाक्येऽतिव्याप्तिवारणाय रमणीयेति । न च रमणीयत्वस्थाननुगतत्वात् तत्रापि[घटमानयेति वाक्ये ]तनास्तीति कथमवगम्यतामिति चेत् ? न-रमणीयताऽत्रलोकोत्तराहादजनकज्ञानगोचरता, लोकोत्तरो य आह्लादः-भानन्दस्तजनकं यज्ज्ञान[ भावना] तद्गोचरता-तद्विषयीभूतता।
For Private And Personal Use Only