________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०
सालङ्कारचूडामणी काव्यानुशासने
यच केचित् -- ' कविकर्म काव्यम्' इति समाख्यानुरोधात् शब्दमात्रस्य काव्यस्वम्, अर्थस्य तु कविकृत्य जन्यतया न तत्त्वम् तस्मादास्वादजीवातुः शब्दः काव्यमिति काव्यं निर्बुवते, तन्न - आस्वादजीवातुत्वस्योभयत्र सामान्यतया वर्तनात्, वैयाकरणानां मते शब्दस्यापि कविकृत्यजन्यतया तत्र काव्यपदस्योक्तसमाख्या समन्वयाय यदि कश्चिदुपायोऽवलम्बनीय स्तर्हि मर्थविषयेऽपि तस्यावलम्बनमेव युक्तमिति न कश्चिद् विशेषस्तयोः, अर्थेऽप्यास्वादोद्बोधकतासवं
,
3
काव्यस्येवार्थस्यापि काव्यत्वं प्रमापयत्येव । यदि च शब्दमात्रे कविकर्मविषयत्वाग्रहस्तर्हि अर्थस्य कविकर्मविषयभूतशब्द प्रकाशनीयतया शब्दद्वाराऽर्थेऽपि कविकर्मविषयत्वमिति स्वीकृस्य समाख्या[ कविकर्म काव्यमिति योग ]विरोधः परिहरणीयः, शब्दमात्रे क्वचित् काव्यत्वव्यवहारश्च - अग्रमात्रे हस्ते हस्तत्वव्यवहारादिवदुपचारादिति । किञ्च, शब्दमात्रस्य काव्यत्वं नितरामक्षोदक्षमम्, तथा सति हि काव्यस्य शरीरत्वेन शब्दमात्रमास्थेयम् एवञ्चार्थस्य काव्यबहिर्भूतत्वेनार्थालङ्कारा भर्थदोषाश्च दत्तजलाञ्जलयः स्युः, तथाहि - "अङ्गाश्रिता अलङ्काराः " [ का० शा. १. १४ ] इत्युक्त्यार्थालङ्काराणामुपमादीनामाश्रयस्यार्थस्य काव्याङ्गतास्वीकाराभावेन तदलङ्कारतानापत्तेः, एवं दोषस्थलेऽप्यर्थगतदोषाणां काव्यदोषत्वानापत्तेः तथा च तन्निरूपणादिप्रयासः सकलालङ्कारिकव्यवहारसिद्धौ वैफल्यमियात्, शब्दमात्रस्य काव्यत्वे हि तन्मात्रगतानामलङ्कारदोषादीनां निरूपणमुपादान- परिहारौ च वक्तव्यावित्यर्थगतालङ्कारदोषादीनामुपादान- परिहाराद्यभिधानमुन्मत्तप्रलापान्नातिरिच्यते, न चार्थस्य रसोपयोगितयाऽर्थगतानामपि तेषां निरूपणं नासङ्गतमिति वाच्यम्, काव्याङ्गनिरूपणे प्रक्रान्ते तेषां निरूपणस्याप्राकरणिकत्वापातात् । इत्थं व्याख्यातमात्मीयं काव्यलक्षणम् ।
wwwwww
"
अत्र प्राचामाचार्याणां नव्यानां च काव्यलक्षणविषये मतभेदो दिङ्मात्रं प्रदशर्यते, तथा हि- काव्यलक्षणकृतां बहुस्वेऽपि मुख्यतया तत्र द्वैविध्यं दृश्यतेकेचन शब्दार्थो मस्य काव्यताशंसिनः केचन केवलस्य शब्दस्य; तत्र प्रथमं शब्दमात्रस्य काव्यत्वे-
[2] “संक्षेपाद्वाक्यमिष्टार्थव्यवच्छिन्ना पदावली काव्यम्" इत्यग्निपुराणम्, अन काव्यमिति लक्ष्यनिर्देशः, इष्टार्थप्रतिपादनपरायणशब्दसमुदयः काव्यमिति लक्षणं फलति, तत्र संक्षेपादिति कथनेन कस्यचिदनावश्यकस्याधिकस्याक्षरस्य पदस्य वा स्थितिरपोहिता । एवम् -
For Private And Personal Use Only