________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० ११
१२९
द्वितीयः, एकस्मिन् पद्ये काव्यद्वयव्यवहारापत्तेः । तस्माद् वेद-शास्त्र-पुराणलक्षणस्येव काव्यलक्षणस्यापि शब्दनिष्ठतवोचिता" इति प्रतिपादितम् ।
तदपरे न क्षमन्ते-काव्यं पठ्यते' इतिवत् 'काव्यं बुद्ध्यते' इति व्यवहारस्यापि दृष्टस्वेन व्यवहारतः शब्दविशेषस्यैव काव्यत्वप्रतिपत्तिः, इति प्रत्युक्तम् , प्रदर्शितोभयव्यवहारेणोभयत्र शक्तेः प्रमितत्वेन शब्दमात्रे काव्यत्वव्यवहारे लक्षणाया अव्याहतत्वमेव । यदपि 'वेदपुराणादिशब्दानामपि शब्दमानपरत्वम् इत्युक्तं, तदपि न-वेदस्वादेः शब्दार्थोभयवृत्तित्वस्य "तदधीते तद्वेद"
पा० ४.२. ५९] इति सूत्रस्थमहाभाष्ये सिद्धान्तितत्वात् , 'तथाहि-तत्रत्यं महाभाष्यम्-"तदधीते तद्वेद" किमर्थमिमावुभावप्यौँ निर्दिश्येते ?, न योऽधीते वेत्यप्यसौ ?, यश्च वेदाधीतेऽप्यसौ, नैतयोरावश्यका समावेशः, भवति हि कश्चित् संपाउं पठति, न वेत्ति । तथा कश्चिद्वेत्ति न संपाठं पठति" इति; अत्र कैयटः-[ 'न य' इति प्रतीकमुपादाय ] यो हि यं ग्रन्थमधीते स त स्वरूपतोऽवश्यं वेत्ति, यश्च स्वरूपतो वेत्ति सोऽवश्यमधीते इति भावः । [नैतयोरिति प्रतीकमुपादाय ] अर्थावबोधो वेदनमभिप्रेतं न तु स्वरूपमात्रवेदनम्' इति । अयमाशयः-सूत्रे 'अधीते वेद' इत्युभयोर्ग्रहणं नावश्यकम् , पठनक्रियाकर्तुर्वेदनावश्यकत्वादिति शङ्का । कश्चिदर्थहीनं पठति, तस्य स्वरूपतो ज्ञानस्य सत्त्वेऽपि अर्थतो ज्ञानं नास्ति, तन्त्र प्रत्ययसिद्धयेऽधीत इति, यश्च वेत्ति-अर्थतोऽवगच्छति परं न पठति, तत्र प्रत्ययसिद्धये वेत्तीति स्थलभेदेन द्वयोर्ग्रहणमावश्यकमित्युत्तरम् । तथा च शब्दार्थयोरुभयोरपि वेदादिशब्दप्रतिपाद्यत्वमित्यायातम् । तथा च दृष्टान्तेन काव्यत्वस्य शब्दमात्रवृत्तित्वस्थापनं विरुद्धम् । यत्तु-'आस्वादोद्बोधकस्वमात्रेण शब्दार्थयोः काव्यशरीरे प्रवेशश्चेत् ? रागादेरपि तथात्वेन तेषामपि तत्र प्रवेश आवश्यकः स्यात्' इति, तदपि न-न वयमास्वादोरोधकमात्रेण शब्दार्थयोः काव्यस्वमभिप्रेमो येन तदुरोधकानामन्येषामपि तन्त्र प्रवेशः स्यात् , किन्वास्वादोद्बोधकत्वं काव्यशरीरगतयोः शब्दार्थयोरभिप्रेमः । अयमाशयः-शब्दार्थयोरू भयोः काव्यशरीरत्वम् , तत्र शब्दस्येवार्थस्याऽप्यास्वादोद्बोधनव्यापार इत्येवास्मन्मतमिति । यदपि-'काव्यत्वमुभयोः व्यासक्तमिति पक्षे श्लोकवाक्यं न काव्यम्' इति दोषः प्रदत्तः, तदपि न-लक्षणयाऽन्यतरस्मिन्नपि व्यवहारसम्भवात्तस्य दोषस्थाप्रातः । तथा च शब्देऽर्थे च काव्यत्वं सुस्थमिति ।
का०९
For Private And Personal Use Only