________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२८
सालङ्कारचूडामणी काव्यानुशासने
तदपि न - 'काव्यधर्मत्वं, रसधर्मत्वं वा गुणत्वम्, काव्यशोभाधायकत्वमलङ्कारत्वम्' इत्यादिरूपेणानुगमसंभवात् । यश्चोक्तम्- 'शौर्यादिवदात्मधर्माणाम्' इति, तदपि 'स्वव्यञ्जकतासम्बन्धेन काव्यात्मभूतरसधर्माणां शब्दार्थयोः स्वीकारः' इत्यादिरूपेण प्रत्युक्तमेव । यदपि च 'दोषाभावस्य लक्षणकुक्षिप्रवेशे दुष्टं काव्यमिति व्यवहारानुपपत्तिः' इत्युक्तं, तदपि न नित्यदोषाणामेवेह दोषपदेनोपादानमित्यादिरीत्या खण्डितत्वात् । तथा च दोषस्याव्याप्यवृत्तितादिशङ्कासमाधानादेवसर एव नेत्यास्तां तावत् ॥
शब्दार्थो इति- शब्दश्रार्थश्रेतीतरेतरयोग द्वन्द्वेन काव्यत्वं तदुभयत्र व्यासज्य वर्तत इति फलति, व्यासज्यवृत्तित्वं च पर्याप्तिसम्बन्धेन वृत्तित्वम्, आस्वादव्यञ्जकत्वस्य लोकोत्तरचमत्कारकारणत्वस्य वा उभयत्र सत्त्वात्, अनुपहसनीय काव्यत्वं हि लक्ष्यतावच्छेदकम् तद्धि उभयत्रैव वर्तते । 'काव्यं पठितं श्रुतं गीतं रचितम्' इति व्यवहारेण शब्दे 'काव्यं बुद्धम्' इति व्यवहारेण anorate प्रतीतेरुभयत्रापि तत्त्वं स्वीकार्यमेव ।
"
wwwwww
,
यत्तु रसगङ्गाधरे 'रमणीयार्थप्रतिपादकः शब्दः काव्यम्' इति स्वकीयं लक्षणं व्यवस्थापयितुं “यत्तु प्राञ्चः शब्दार्थों काव्यमित्याहुस्तत्र विचार्यते - शब्दार्थयुगलं न काव्यशब्दवाच्यं मानाभावात्, 'काव्यमुचैः पठ्यते, काव्यादर्थोऽवगम्यते, काव्यं श्रुतमर्थो न ज्ञातः' इत्यादिविश्वजनीनव्यवहारतः, प्रत्युत शब्दविशेषस्यैव काव्यपदार्थत्वप्रतिपत्तेश्च व्यवहारः शब्दमात्रे लक्षणयोपपादनीयः, यथा ग्रामैकदेशे दग्धे ग्रामो दग्ध इति व्यवहारस्तद्वदिति चेत् ? स्यादप्येवम्, यदि काव्यपदार्थतया पराभिमते शब्दार्थयुगले काव्यशब्दशक्तेः प्रमापकं दृढतरं किमपि प्रमाणं स्यात्, तदेव तु न पश्यामः, विमतवाक्यं त्वश्रद्धेयमेव । इत्थं चासति -काव्य शब्दस्य शब्दार्थयुगलशक्तिग्राहके प्रमाणे प्रागुक्ताद् व्यवहारतः शब्दविशेषे सिध्यन्तीं शक्ति को नाम निवारयितुमीष्टे ? । एषैव वेदपुराणादिलक्षणेष्वपि गतिः, अन्यथा तत्रापीयं दुरवस्था स्यात् । यत्तु - भास्वादे बोधकत्वमेव काव्यत्वप्रयोजकम्, तच्च शब्दे चार्थे चाविशिष्टम्' इत्याहुः, तन -रागस्यापि रसव्यञ्जकतया ध्वनिकारादिसकलालङ्कारिकसम्मतत्वेन प्रकृते लक्षणीयत्वापत्तेः । अपि च काव्य पदप्रवृत्तिनिमित्तं शब्दार्थयोर्व्यासक्तम् ? प्रत्येकपर्याप्तं वा ?, नाद्यः, एको न द्वाविति व्यवहारस्येव श्लोकवाक्यं न काव्यमिति व्यवहारस्यापतेः न
For Private And Personal Use Only