________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू०११।
.
१२५
अपि तस्यायोगात् , शौर्यादिवदात्मधर्माणां गुणानां हारादिवदुपस्कारकाणामलकाराणां च शरीरघटकत्वानुपपत्तेश्च" इति ।
अस्यायमाशयः-काव्यलक्षणे गुणा-ऽलङ्कार-दोषाभावानां निवेशो नोचितः, गुणा हि माधुर्यादयः, ते च रचनाविशेषसम्बद्धाः, अलङ्कारा अपि तथैव, एवं च निर्गुणे निरलङ्कारे च "उदितं मण्डलं विधोः" "गतोऽस्तमकः” इति वाक्ययोVत्यभिसारिकादिप्रोच्चारितयोर्वक्तृबोद्धव्यादिविशेषसहकारेण विभिन्नविलक्षणार्थप्रतिपादकतयाऽतिचमत्कारकारिणोरवश्यं काव्यत्वेन स्वीकार्ययोरच्याश्यापत्तः, अनयोरस्मन्मते न काव्यत्वमिति तु न वाच्यम् , सत्यपि चमत्कारकारित्वरूपा. तिशयेऽनयोः काव्यत्वास्वीकारे भवदभिमतकाव्यस्याप्यकाव्यत्वेन वक्तुं शक्यत्वात् , गुणत्वाऽलङ्करस्वादीनामनुगतरूपेण लक्षणस्य दुर्निरूपतया च स्वयमनुगमरहितयोस्तयोः काव्यलक्षणप्रवेशे तल्लक्षणस्याप्यननुगतत्वापत्तेः, किञ्च गुणा न शरीरधर्माः किन्त्वात्मनः, शब्दार्थों च काव्यस्य शरीरम्, इति न तद्गुणवं गुणानाम् , अलङ्कारा अपि न शरीरघटका अपि तु शरीरमूषका इति न तेषामपि स्वरूपे निवेशो युक्तः, दोषाभावोऽपि न लक्षणे निवेश्यः, दुष्टं काव्यमिति व्यवहारस्य निरालम्बनत्वप्रसङ्गात् । न च यथा संयोगस्याव्याप्यवृत्तितया स्वाभावेन सहकस्मिन्नधिकरणे तस्य वृत्तिः स्वीक्रियते, तथा च 'संयोगाभाववान् वृक्षः संयोगी' इति यथा व्यवह्रियते तथा दोषस्याप्यव्याप्यवृत्तितया स्वीकारात् काव्यं [दोषरहितं] दुष्टमिति व्यवहारः किं न स्यादिति वाच्यम् , 'मूले वृक्षः कपिसंयोगी न शाखायाम्' इत्यादिप्रतीत्या संयोगस्याव्याप्यवृत्तित्वोपगमेऽपि 'इदं पद्यं पूवार्धे काव्यं, न परार्धे' इतीदृश्याः प्रतीतेरभावाद् दोषाणामव्याप्यवृत्तित्वे मानाभावात् , इति । __ अत्र ब्रूमहे—यदुतम् 'उदितं मण्डलं विधोः, गतोऽस्तमकः' इत्यादिनिर्गुणनिरलङ्काराणां काव्यत्वं न स्यात्' इति, तन- 'लोकोत्तरं कविकर्म काव्यम्" इत्युक्ततया लोकोत्तरत्वविशिष्टस्य काव्यलक्षणकरणे तत्र गुणालङ्कारयोः प्रवेशे प्रोक्तेषु तल्लक्षणागमनेऽपि क्षत्यभावात् । अयमाशयः-'लोकोत्तरचमत्कारविशिष्टौ शब्दार्थों काव्यम्' इत्येतावदेव हि सामान्यतो लक्षणमभीष्टम् , गुणाऽलङ्कारौ तु विशेषकतया निर्दिष्टी, उपपादितं चैतद् गङ्गाधरशास्त्रिणा स्वकीयरसगङ्गाधरटिप्पण्याम् । किञ्च, अलङ्काराणां नैयत्यमपि नास्माकमभिमतमित्यपि चकारेण सूच्यत इत्युपवर्णयिष्यत एव । यञ्चोक्तं 'गुणत्वालङ्कारत्वादेरननुगमाञ्च' इति,
For Private And Personal Use Only