SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ सालङ्कारचूडामणौ काव्यानुशासने . अत्रापरे साहित्यदर्पणकारविश्वनाथकविपञ्चाननप्रभृतयो नवीनाः प्रत्यवतिष्ठन्ते यदि दोषरहितस्यैव काव्यत्वमिष्टं तर्बुदाहियमाणस्यास्य पद्यस्य काव्यत्वं न स्थात् , यथा "न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः, सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिग्धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा, स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥" [ह० ना० अं० १४, श्लो० ६] अर्थः-अयं श्लोको हनुमन्नाटके किञ्चिद्वैपरीत्येन पठितो दृश्यते, अनत्यं पूर्वाद्धं तत्र पराधस्वेन पठितम् , अलङ्कारग्रन्थेषु सर्वत्रायमेव [भत्रत्यः] पाठः समुपलभ्यते, किञ्च तत्र "स्वर्गग्रामटिकाविलुण्ठनपरैः पीनैः किमेभिर्भुजैः" इति पाठः, तथापि यथाऽन्न स्थितः पाठस्तथैव व्याख्यायते। मे-सर्वलोकविजयिनः परमप्रतापयुक्तस्य, यत् , अरयः-शत्रवोऽपि सन्ति, अयमेव न्यकार:तिरस्कारः, निःसपत्लेन मया भवितव्यम्, तत्र नैकोऽरिः, किन्तु अरयः-बहवः शत्रवः । तत्राऽपि-तेष्वरिष्वपि, असौ-प्रख्यातः, तापसः-तपस्विवेषधरो रामः, कश्चित् समो वरी भवेत् तदाऽपि कश्विदाश्वासः, किन्तु राज्यभ्रष्टः सहायहीनस्तपस्विवेषधारी च, भयमपि परमो न्यक्कारः । सोऽपि अत्रैव-लङ्कामागत्य, न तु स्वोपरि आक्रममाण, राक्षसकुलं-राक्षसानां वंशमेव, नन्वेकं कमपि राक्षसं, निहन्ति-न केवलमाक्रामति किन्तु मारयत्यपि । अहो ! तथापि रावणो जीवतिप्राणान् धारयति महदाश्चर्यमिति भावः । शक्रजितम्-इन्द्रजेतारं मेघनादम् , धिक् धिक्-बहुशो धिक्काराः, प्रबोधितवता-बलान्निद्रातः समुत्थापितेन, कुम्भकर्णेन-मदनुजेन, किम् ?-तेनापि न किमपि कृतमिति भावः । किञ्च, स्वर्गग्रामटिकायाः-स्वर्गरूपक्षुद्रग्रामस्थ, विलुण्ठनेन-पुनः पुनः सर्वस्वहरणेन, वृथानिष्प्रयोजनं यथा स्यात् तथा, उच्छूनः-वृद्धि गतैः पुष्टैः, एभिः-मदीयैः, विंशत्या भुजैः-बाहुभिः, किम् ?-एभिरपि न किमपि स्वानुरूपः पराक्रमः प्रकटित इति भावः ॥ अत्र हि विधेयाविमर्शो नाम दोषः, स च विधेयस्य-विषयस्य, अविमर्शःसत्वेनाप्रतिपादनमेव, तच्चेह विद्यते, तथाहि "अनुवाद्यमनुत्वैव न विधेयमुदीरयेत् । नहलब्धाऽऽस्पदं किञ्चित् कुत्रचित् प्रतितिष्ठति ॥" For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy