________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ मध्या० १, सू० ११
१२१
विशेषणत्रयं शब्दाऽर्थयोरुपात्तम् । शब्दाऽर्थावित्यत्र च यद्यप्यर्थशब्दस्य स्वराधकारान्तत्वेन पूर्वनिपातो युक्तस्तथापि शब्दस्यार्थाश्रयतया प्राधान्येनाऽभ्यहितत्वात् पूर्वनिर्देशः, अर्थे लौकिकार्थक्रियाकारित्वरूपस्य प्राधान्येऽपि शास्त्री. यार्थक्रियाकारित्वस्य शब्दाधीनत्वेन तस्यैव प्राधान्यात् , श्रुतावपि हि "नामरूपे व्याकरवाणि" [छा० उप० १] इत्यादौ नामपदेन शब्दस्यैव पूर्वनिर्देशः, कविभिरपि “वागर्थाविव सम्पृक्तौ" [२० वं० स० १-श्लो० १] इत्यादौ शब्दस्यैव 'वाक्'पदेन पूर्वमुपादानम् । गुणसत्यापेक्षया दोषाभावस्यैवाधिकावश्यकत्येन पूर्वमदोषाविति विशेषणमुपात्तम् , गुणेन हि ग्राह्यतातिशयो विज्ञायते, दोषास्तु काव्यद्वारा कविमपि दूषयन्तीति तत्परित्यागः पूर्वमेवापेक्षित इति बुद्ध्या च; अदोषो न विद्यते दोषो ययोरिति बहुव्रीहिः, काव्यत्वविघटका ये च्युतसंस्कारत्वादयोऽतिप्रबला दोषास्तैर्विरहितौ शब्दार्थों काव्यलक्षणघटकत्वेन ग्राह्यौ। . अत्रेदं विचार्यते-“अदोग" इत्यत्र नअर्थान्वयितया विवक्षितस्य दोषस्य सामान्याभावो विवक्षितो विशेषाभावो वा?, नाद्यः, एवं सति काव्यं निर्विषयं स्यात् , नहि सम्भवति प्रयत्नेनापि निर्मिते काव्ये दोषसामान्याभावः, अथ कश्चिन्महताऽवधानेन विमलया प्रतिभया च युक्तः कविकुलचूडामणिः पद्यमेकमल्पं वा कमपि प्रबन्धं तादृशं विरचयेदपि, तथाऽपि प्रविरलविषयता काव्यस्य स्यादेव, स्थाच बहूनां महाकाव्यानामकाव्यतेति; न द्वितीयः, वस्तुतो दुष्टस्यापि काव्यस्य काव्यता स्वीकार्या स्यात् , नहि वचिदपि काव्ये सर्वेषां दोषाणां योगपद्येन सत्ता सम्भवति, तथा च कस्यचिद् दोषस्याभावादेव दोषविशेषाभाववत्त्वं शब्दार्थयोरस्तीति तस्य काव्यत्वं को व्याहन्तुमीशः, एवं च दोषसत्ताहेतुकाऽकाव्योदाहरणमेव दुर्लभं स्यादित्युभयतः पाशायां रज्जो दुर्लभोऽदोषाविति लक्षणघटकविशेषणस्य प्रवेश इति; अत्रोच्यते-प्रथमः पक्ष एव साधीयान् , न च सर्वथा निर्दोषस्यैकान्तमसम्भव इति वाच्यम् , पदमात्रस्य, एकस्य पद्यस्य, अन्यस्य निबन्धस्य वा तथाभूतस्य लाभे लक्षणस्य साफल्यात् , भन्न पक्षे पूर्व प्रदर्शितः काव्यस्य प्रविरलविषयतादोषश्च भूषणमेव, अत एव चेदृशेऽपारे विचित्रकविपरम्परापरिपूरितेऽपि संसारे द्वित्रा एव महाकवयः स्तूयन्ते, तथा च निर्दोषशब्दार्थवत्वं काव्यलक्षणे देयमेवेति ।
For Private And Personal Use Only