SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० सालकारचूडामणौ काम्यानुशासने काव्यस्य हेतुमुक्त्वा खरूपमाहअदोषौ सगुणौ सालङ्कारौ च शब्दार्थों काव्यम् ॥११॥ पत्रं प्रामोति तच्छीलं तस्मिन् , नीलकमलपत्रपरिधानशीले इति भावः, कणे, करोति-धारयति, दलं परित्यज्य तत्स्थाने बह धत्ते इति यावत् , हरशशिरुचाशिवशिरश्चन्द्रकान्त्या, धौतापाङ्ग-स्वतोऽपि शौक्यादतिधवलितनेत्रापाङ्गम् , पावकस्य-अग्रपत्यं पुमान्-पावकिः, तस्य स्कन्दस्य, तं-पूर्वोक्तं, मयूर-शिखिनम् , पश्चात्-पूर्वोक्तसार्द्रपुष्पाभिषेचनानन्तरम् , अद्रेः-देवगिरेः कर्तुः, ग्रहणेनगुहासङ्क्रमणेन, गुरुभिः-प्रतिध्वानमहद्भिरित्यर्थः, गर्जितैः-स्वकीयगर्जनशब्दैः, नर्तयेथाः-नर्तनं कारय, मार्दङ्गिकभावेन कुमारमुपास्स्वेति भावः । तथा चात्र मेघवानेन शिखिनो नृत्यं निबद्धमेवेति ।। विशेषजिज्ञासुभिश्च महाकवीनां विततं निबन्धवृन्दं परिशीलनीयमिति ॥१०॥ काव्यकारणनिरूपणप्रसङ्गेन तदन्तःपातिशिक्षाया लक्षणं विस्तरेण विवेचयन प्राप्तावसरं कविसमयं च प्रदर्य सम्प्रति काव्यलक्षणभूतं सूत्रं व्याचिख्यासुराहकाव्यस्य हेतुमुक्त्वा स्वरूपमाहेति-काव्यस्य-अनुपहसनीयस्वविशिष्टस्य कविकर्मभूतस्य, हेतुम्-उत्पत्तिकारणम् , उक्त्वा-"प्रतिभाऽस्य हेतुः" [का०शा० १-४] इत्यादिसूत्रैः कथयित्वा, तस्यैव स्वरूप-स्वं-काव्यात्मकं लक्ष्य, रूप्यतेइतरभिन्नत्वेन रूपेण ज्ञाप्यतेऽनेनेति स्वरूपं लक्षणम् , आह-"अदोषौ सगुणौ" इत्यादिसूत्रेण कथयतीति भावः । अनेन सूत्रेण काव्यस्य लक्षणं प्रतिपादनीयम् , तत्र काव्यलक्षणे बहु विवदन्ते आलङ्कारिकाः । केचित् काव्यत्वं शब्दमात्रनिष्ठमाचक्षते, अपरे शब्दार्थोभयनिष्ठम् , तेषां मतानि च सूत्रव्याख्यान्ते विवेचयिष्यन्ते । स्वमते च शब्दार्थयोर्द्वयोरेव सहभावेन काव्यत्वमङ्गीकृतम् , आस्वाद. व्यञ्जकत्वस्योभयत्राऽपि सद्भावात् , 'काव्यं श्रुतम् , गीतं रचितम् , काव्यमवगतंबुद्धम्' इत्यादिविश्वजनीनव्यवहारदर्शनेनानुपहसनीयकाव्यत्वरूपस्य लक्ष्यतावच्छेदकधर्मस्योभयत्राऽपि सत्त्वेन तथानिर्णयात् । तदाह-अदोषौ सगुणौ सालङ्कारौ च शब्दाऽौँ काव्यमिति-शब्दश्चार्थश्चानयोरितरेतरयोगः शब्दार्थों, तौ काव्यं-काव्यशब्दप्रवृत्तिनिमित्तं, तथा च सर्वेषां शब्दानामर्थानां च काव्यत्वप्रसक्तो लक्षणस्याव्यावर्तकतेति तदोषवारणाय 'भदोषौ' इत्यादि For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy