SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू०१०। ११९ मा कैलासाद् विसकिसलयच्छेदपाथेयवन्तः, सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥" [मे० दू० पू० मे० श्लो० ११] अर्थः-यद् गर्जितं कर्तृ, महीं-पृथ्वीम् उच्छिलीन्ध्राम्-उद्तकन्दलिकाम् , अत एव अवन्ध्या-सफलाम् , कर्तुं प्रभवति "कन्दल्यां च शिलीन्ध्रा स्यात्" इति शब्दार्णवे, शिलीन्ध्राणां भाविसस्यसम्पत्तिसूचकत्वं च निमित्तनिदाने इत्थमुक्तम्"कालाभ्रयोगादुदिताः शिलीन्ध्राः, सम्पन्नसस्यां कथयन्ति धात्रीम्" इति।श्रवणसुखद-श्रुतिसुखजनकम् , ते-तव, गर्जितं-गर्जनशब्दम्, श्रुत्वा-समाकर्ण्य, मानसोकाः-मानसे सरसि उत्कण्ठिता, कालान्तरे मानसस्य हिमदुष्टत्वात् , हिमस्य च हंसानां रोगहेतुत्वादन्यत्र गता हंसाः पुनर्वर्षासु मानसमेव गच्छन्तीति प्रसिद्धिः, बिसकिसलयानां-मृणालाग्राणां, छेदैः-शकलैः, पाथेयवन्तः पथिभोज्यद्रव्ययुक्ताः, मृणालकन्दलशकलसम्बलवन्त इति यावत् ; राजहंसाः-हंसविशेषाः, "राजहंसास्तु ते च चरणैलोहितैः सिताः" इत्यमरः, नभसि-व्योन्नि, भवतःतव,सहायाः-सयात्राः, "सहायस्तु सयात्रः स्यात्" इति शब्दार्णवे, सम्पत्स्यन्तेभविष्यन्ति । अत्र वर्षासु हंसानां मानसगमनं स्पष्टम् ॥ विप्रयोगस्य तापैहदयस्फोटो यथा कादम्बरीविरहेण मुनिपुत्रस्य कपिञ्जलस्य कादम्बरीपूर्वार्धवर्णितः ॥ मेघध्वानेषु शिखिनां नृत्यं यथा"ज्योतिर्लेखावलयि गलितं यस्य बह भवानी, पुत्रप्रेम्णा कुवलयदलप्रापिकणे करोति । धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूर, पश्चादद्रिग्रहणगुरुभिर्गर्जितैनर्तयेथाः ॥" [ मे० दू० पू० मे० श्लो० ४४] अर्थः-मेधं प्रति यक्षः कथयति-ज्योतिष:-तेजसः, या लेखाः-राजयः, तासां वलयं-मण्डलं यस्यास्तीति तत् तथोक्तम्, गलितं-भ्रष्टं स्वतः पतितं, न तु लोल्यात् छिन्नमिति भावः, यस्य-मयूरस्य, बह-पिच्छम् , भवानी-गौरी, पुत्रप्रेम्णा-पुत्रस्यायं वाहनीभूतो मयूर इति स्नेहेन, कुवलयस्य-नीलोत्पलस्य, दलं For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy