SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११८ Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणी काव्यानुशासने तथाहि - साहित्यदर्पणे कविसमयख्यातानि इत्थं प्रदर्शितानि - "मालिन्यं व्योनि पापे, यशसि धवलता वर्ण्यते हासकीयों, रक्तौ च क्रोध-रागौ सरिदुदधिगतं पङ्कजेन्दीवरादि । तोयाधारेऽखिलेऽपि प्रसरति च मरालादिकः पक्षिसको, ज्योत्स्ना पेया चकोरैर्जलधरसमये मानसं यान्ति हंसाः ॥ पादाघातादशोको विकसति बकुलो योषितामास्यमद्यैयूनामङ्गेषु हाराः स्फुटति च हृदयं विप्रयोगस्य तापैः । मौर्वी रोलम्बमाला धनुरथ विशिखाः कौसुमाः पुष्पकेतोभिन्नं स्यादस्य बाणैर्युवजनहृदयं स्वीकटाक्षेण तद्वत् ॥ अह्वयम्भोजं निशायां विकसति कुमुदं चन्द्रिका शुक्लपक्षे, मेघध्वानेषु नृत्यं भवति च शिखिनां नाप्यशोके फलं स्यात् । न स्याजाती वसन्ते न च कुसुमफले गन्धसारद्रुमाणामित्याद्युन्नेयमन्यत् कविसमयगतं सत्कवीनां प्रबन्धे ॥” इति । अत्रोक्ता बहुशो विषया उदाहृता एव, अन्येऽपि यथादर्शनमुन्नेयाः, तत्र केचन प्रदर्श्यन्ते । अशोकस्य पादाघातेन विकासो यथा "असूत सद्यः कुसुमान्यशोकः स्कन्धात् प्रभृत्येव सपल्लवानि । पादेन नापैक्षत सुन्दरीणां सम्पर्कमाशिञ्जितनूपुरेण ॥" [कु. संभव० ३।२६] " अर्थः- महादेवविजयप्रस्थितस्य मदनस्य साहाय्यं कर्तुं तत्प्रियसखो वसन्तः स्वसम्मृद्धिं स्वयमेव प्रकटीचकारेति प्रसङ्गे कुमारसंभवकाव्ये पद्यमिदम्, अशोकः स्कन्धात् - शाखाद्वयविभागस्थानात् प्रभृत्येव - ततः प्रारभ्यैव, सद्यः- तत्कालमेव, सपलवानि - सकिसलयानि, कुसुमानि पुष्पाणि, असूत-जनयामास, आशिञ्जिताः - कृतशब्दा नूपुरा यस्मिंस्तेन, सुन्दरीणां पादेन सम्पर्क नापैक्षत, कोऽप्येष चकारातिशयो यत् सुन्दरीपादाघातं विनैवाशोको विकसित इति । तथा च तद्विकासे तदपेक्षेति स्फुटं प्रतीयते ॥ जलधरसमये हंसानां मानसं प्रति गमनं यथा"कर्तुं यच्च प्रभवति महीमुच्छिलन्धामवन्ध्यां, तच्छ्रुत्वा ते श्रवणसुखर्द गर्जितं मानसोक्ताः । For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy