SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू०१०। ७ अर्थः-अयं-अग्रे दृश्यमानः, प्रथितः संयमः बाह्यान्तरिन्द्रियनिग्रहो यस्य तादृशः, शंकरः-शिवः, सः, अधुना विरहकातर:-क्षणमपि प्रियाविरहमसहमानः सन् , वपुषा-स्वशरीरार्धेन कामिनी-स्वप्रेयसी पार्वतीम् , बिभर्तिधारयति, अनेन वयं निर्जिताः-निर्जित्य दग्धाः, किल-प्रसिद्धिरेषा, इति कथयन् , करेण-स्वहस्तेन, प्रियायाः करं परिताडयन्-उभयकरघातेन तालिका घटयन् , जातहास:-'अहो कीदृशोऽयं लोकप्रवादो यन्मदशे विद्यमानोऽपि शिवो मद्विजेतृत्वेनोद्धोष्यते' इति हेतोर्हसन् , स्मरः-कामः, जयति-सर्वातिशायित्वेन राजते । अत्र करेण करताडनस्योक्ततया हासवत्वेन च तस्य मूर्तत्वं निबद्धमिति स्पष्टम् ॥ तस्यैवामूर्तत्वमपि यथा "धनुर्माला मौर्वी कणदलिकुलं लक्ष्यमबलामनो भेद्य, शब्दप्रभृतय इमे पञ्च विशिखाः । इयाओतुं यस्य त्रिभुवनमनङ्गस्य विषयः, स वः कामः कामान् दिशतु दयितापाङ्गवसतिः ॥" [सुभाषितावली, घण्टकस्य] अर्थः-अनङ्गस्य-शरीररहितस्य यस्य, माला-पुष्पमाल्यम् , “माला तु पड्तौ पुष्पादिदामनि" इति हैमः, धनुः-चापः, कणदलिकुलं-शब्दायमानभ्रमरसमूहः, मौर्वी-ज्या, भेद्य-भेदनीयम् , अबलामनः, मनसोऽणुत्वेन प्रसिद्धेरत्र लक्ष्यस्य दुर्भद्यत्वं ध्वन्यते, लक्ष्य-वेधविषयः, इमे शब्दप्रभृतयः-शब्दरूप-रस-गन्ध-स्पर्शाः, पञ्च-परिमितपञ्चसंख्याकाः, विशिखाः-बाणाः, त्रिभुवनंप्रयो लोकाः, इयान् विषयः, जेतुं-विजयकर्मीकर्तुम् , ख्यातः, दयितानास्त्रीणाम् , अपाङ्गे-नेत्रकोणे, वसतिः-निवासो यस्य सः, स-प्रसिद्धः कामः, वः कामान्-अभिलषितप्रियसङ्गमादीन् , दिशतु-ददातु । अनङ्गः सन् आयुधादिना परमदुर्बलोऽपि दुर्लक्ष्यभेदनपूर्वक त्रिभुवनविजयी काम इति, कवेराशयः । अत्रामूर्त्तत्वमनङ्गपदेन स्पष्टं प्रतिपादितम् ॥ इत्थं काव्येषु सिद्धवत्कृत्य प्रयुक्तः कवीनां समयो दिङ्मात्रेण निर्दिष्टः, विस्तरमाहिभिः प्रबन्धान्तरेषु तदन्वेषणं कार्य स्वयं वोहनीयमिति ध्वनयन्नाह-इत्या. दीति-इति-पूर्वोक्तप्रकारकसदसमिबन्धादिरादौ यस्य तदिति सामान्ये नपुंसकम् । For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy