________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
wwwwww
सालङ्कारचूडामणौ काव्यानुशासने बाहुकालजन्मनोऽपि शिवचन्द्रमसो बालत्वं, कामस्य च मूर्तत्वममूर्तत्वं चेत्यादि ॥ १० ॥ तेषां श्रियं मुष्णन्तीति तथोक्तास्तेषाम् , क्षिप्यमाणकुन्दानुसारिमधुकरकल्पानामिति भावः, दशपुरं-रन्तिदेवस्य नृपस्य नगरं, तस्य वध्वः-स्त्रियः, तासां नेत्रकौतूहलानां नेत्राभिलाषाणां साभिलाषदृष्टीनामिति यावत् , आत्मबिम्बस्वमूर्तिम्, पात्रीकुर्वन्-विषयीकुर्वन्, व्रज-गच्छ । अत्र कृष्णशारप्रभाणा. मित्यनेन कृष्णताबहुला शबलता नेत्रेषूक्तेति ॥
एवं बहुकालजन्मनोऽपि अविदितविप्रकृष्टकालभवस्यापि, शिवचन्द्रमसः शिवशिरःशेखरस्थत्वेन प्रसिद्ध शशिकलायाः, बालत्वम् अप्राप्तावस्थान्तरप्राथमिकावस्थावत्त्वं कविसमयसिद्धम् , यथा
"मालायमानामरसिन्धुहंसः, कोटीरवल्लीकुसुमं भवस्य । दाक्षायणीविभ्रमदर्पणनि, बालेन्दुखण्डं भवतः पुनातु ॥"
[का० मी० अ-१६] अर्थः-मालायमाना-मालेवाचरिता या, अमरसिन्धुः--गङ्गा, तस्या हंसः, शिवशिरोमालाभूतायां गंगायां संचरणशीलहंससदृशम् , कोटीरः-जटा, "कोटी. रस्तु जटा सटा" इति रभसः । सैव वल्ली-लता, तस्याः कुसुमं-पुष्पम् , तत्सदृशामित्यर्थः, दाक्षायण्याः-दक्षात्मजायाः सत्याः, विभ्रमाणां-मुखव्यापारादिचेष्टानां, दर्पणस्य-आदर्शस्य, श्रीरिव श्रीर्यस्य तत्, तत्कार्यकारित्वेन तद्वदुपचर्यमाणमिति भावः, भवस्य-शिवस्य, बालेन्दुखण्डं-नूतना शशिकला, भवतःसभ्यान् , पुनातु-पवित्री करोतु । अत्र खण्डरूपस्येन्दोलित्वं स्फुटमुक्तमेव ॥
कामस्य हि शिवनेत्रदाहात् पूर्व मूर्तत्वं-शरीरित्वं, दाहान्तरं चामूर्तत्वमिति वस्तुस्थितिः, कविसमये तूभयमप्युपनिबध्यते । तत्र मूर्तत्वं यथा
"अयं स भुवनप्रयप्रथितसंयमः शङ्करो, बिभर्ति वपुषाऽधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः कर, करेण परिताडयअयति जातहासः स्मरः ॥"
[का० मी० -६]
For Private And Personal Use Only