________________
Shri Mahavir Jain Aradhana Kendra
११४
www.kobatirth.org
सालङ्कारचूडामणी काव्यानुशासने
www
यस्य तस्मिन् मयि तद्वारं तस्या द्वारदेशं, वीङ्खया - गतिविशेषेण "वीमा गतिविहारेर्ष्यापरिसर्पपरिक्रमाः" इति हैमः [६, १३६ ], मृदु यथा स्यात् तथा, प्रेङ्गति - गच्छति सति, हीनम्राननयैव - तंत्रस्थजनदर्शन कृत लज्जासंवरणाय नीचेराष्ममुखं धारयन्त्यैव, तत्रान्तरे - तस्मिन्नेव समये, लोलं- चञ्चलं च तत् सरलं - निसर्गमृदुभावं यथा स्यात् तथा, निःश्वस्य-दुःखसूचकं निःश्वासं कृत्वा, प्रेम्णा आर्द्राः - कोमलाः, शशिखण्डस्य - चन्द्रशकलस्य, पाण्डिमानं - चैत्यं मुष्णन्तीति ताः, कटाक्षस्य छटा:- कान्तयो, मुक्ताः-मभिमुखमीरिताः । इह गुरुपरवशा मध्या नायिका । अत्र चक्षुषः श्वेततयोपनिबन्धः ॥
चक्षुषः श्यामता यथा
Acharya Shri Kailassagarsuri Gyanmandir
“अथ पथि गमयित्वा क्लृप्तरम्योपकार्ये, कतिचिदवनिपालः शर्वरीः शर्वकल्पः । पुरमविशदयोध्यां मैथिलीदर्शिनीनां,
कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥” [ २० वं० स०११, लो - ९३]
wwww
"
अर्थः- सीतास्वयंवरप्रसङ्गे जनकपुरं गतस्तत्र परिणीतपुत्रचतुष्टयो राजा दशरथोऽयोध्यां प्रत्यावृत्तस्तत्रत्यं वर्णनमिदम् - अथ - अनन्तरम्, शर्वकल्पः- शिवसदृशः, अवनिपालः- राजा दशरथः, क्लृप्ता-रचिता, रम्या - मनोहरा, उपकार्या - पटभवनं यत्र तस्मिन् पथि मार्गे, कतिचित्, शर्वरी: - रात्रीः, गमयित्वा - अतिवाह्य, मैथिलीदर्शिनीनां सीतासंदर्शनलालसानाम्, अङ्गनानां पुरस्त्रीणाम्, लोचनैः - नेत्रैः, कुवलयिताः - कुवलयेन नीलोत्पलेन युक्ताः कृताः, गवाक्षाः - वाता. यनानि यस्यां ताम्, अयोध्यां पुरम् - अयोध्यानगरीम्, अविशत्-प्रविष्टवान् । अन्न लोचनानां कुवलयेन साम्यविवक्षणात् श्यामता स्पष्टं प्रतीयते ॥
कृष्णता यथा
"पादन्यासैः क्वणितरशनास्तत्र लीलावधूतैरत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाप्रबिन्दूनामोक्ष्यन्ते त्वयि मधुकर श्रेणिदीर्घान् कटाक्षान् ॥ "
-
[ मे० दू० पू० मे० लो-३५ ]
wwwwwww
For Private And Personal Use Only