________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशामिधषिवृतौ अध्या० १, सू० १०
११३
-
-
यथा च
"भासीद् दैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः।
प्रथयन्ति बलं बाह्रोः सितच्छन्नस्मिताः श्रियः ॥" [हयग्रीववधे] मर्थः- हयग्रीवो दैत्य भासीत्, यस्य बाह्रोबलं, सृहद्वेश्मसु-तन्मित्रमन्दिरेषु, सितच्छत्रमेव स्मितं-लीलावाससूचक ईषद्धासो मासां तथाभूताः, ताः-विख्याताः, श्रियः-सम्पदः, प्रथयन्ति-प्रकटयन्ति । एतेनैव तस्य प्रभुत्वं बाहुबलं चानुमेयं यत् तस्य सुहृदोऽपि तेन तथा सम्पादिता यथा तेऽपि सितच्छन्त्रवन्तो राजान एव जाता इति । अत्र हयग्रीवोऽसुरोऽपि दैत्यत्वेनोपनिबद्धः ॥ यथा वा हयग्रीवं प्रति"दानवाधिपते! भूयो भुजोऽयं किं न नीयते ।
सहायतां कृतान्तस्य क्षयाभिप्रायसिद्धिषु ॥" [ह. व.] अर्थ:-हे दानवानामधिपते!-हयग्रीव!, अयं-स्वकीयो भुजः, कृतान्तस्ययमस्य, क्षयाभिप्रायाणां-नाशाभिलाषाणां, सिद्धिषु-साधनेषु, भूयः-पुनरपि, अधिकं वा, सहायता-सहकारित्वम् , किं न नीयते ? कुतस्त्वमुदासीन इव पूर्ववत् प्रतिपक्षाणां मारणाद् विरतोऽसीति भावः । अत्रासुरस्य तस्य दानवत्वेनोपनिबन्धः॥ .. उपनिबद्धश्चायं सदसदसत्सन्निबन्धनः कविसमयः, एवंभूताश्च बहुशः कविसमयविषया भाकारेषु स्थितास्ते यथायथं तेभ्योऽनुसन्धेयाः । किञ्च चक्षुः कृष्णमध्यं श्वेतप्रान्तं च स्वाभाविकं, तस्य कविभिरनेकवर्णत्वेनोपनिबन्धनं क्रियते, तस्य शुक्लता यथा
"तिष्ठन्त्या जनसंकुलेऽपि सुदृशा सायं गृहप्राङ्गणे, तवारं मयि निःसहालसतनौ वीङ्खामृदु प्रेवति । हीनम्राननयैव लोलसरलं निःश्वस्य तत्रान्तरे, प्रेमाः शशिखण्डपाण्डिममुषो मुक्ताः कटाक्षच्छटाः ॥"
- [का० मी० अ-१५] भर्थः-सायं जनसंकुले-बहुजनव्यातेऽपि, गृहप्राङ्गणे, तिष्ठन्त्या सुदृशा, निःसहा-कामपीडादिमा ग्लाना, अत एव अलसा-मन्दव्यापारा, तनुः-शरीरं
का०८
W
For Private And Personal Use Only