________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने
प्रियागना अन्याः सपत्नीरधः करोतीति । अत्र गङ्गाया पूर्वसागरगामित्वेऽपि महासमुद्रवल्लभात्वेनोक्तिरुभयोरैक्यमास्थायैव ॥
तत्वतो दैत्य-दानवाऽसुराणां भेदः; तथाहि-दितेरपत्यानि-हिरण्याक्ष-हिरण्यकशिपु-प्रह्लाद-विरोचन बलि-बाणादयो दैत्याः, दनोरपत्यानि-विप्रचित्ति-शम्बरनमुचि-पुलोमप्रभृतयो दानवाः, एभ्योऽतिरिक्ताः सुरविरोधित्वमात्रेण ख्याता बल-वृत्र-विक्षुरस्त-पृषपर्वादयोऽसुरा इति । कोशेषु यद्यपि “असुरा दैत्यदैतेय-दनुजेन्द्रारिदानवाः । शुक्रशिष्याऽदितिसुताः पूर्वदेवाः सुरद्विषः ॥" इत्यादिरूपेणैते सर्वे पर्यायवाचिनो विख्यातास्तथापि देवविरोधित्वमात्रं साम्यमेषामादाय तत्रैकत्र निर्देशः, किन्तु तेषां युगभेदेन वंशभेदेन गुणभेदेन पार्थक्यं स्पष्टमेव, तथापि कविसमये तेषामैक्येनैव व्यवहारः । यथा
"जयन्ति बाणासुरमौलिलालिता, दशास्यचूडामणिचक्रचुम्बिनः । सुराऽसुराधीशशिखान्तशायिनो, भवच्छिदख्यम्बकपादपांसवः ॥"
[का० पू० भा० श्लो. २] अर्थः-बाणासुरस्य मौलिना-किरीटेन, लालिताः-सादरं सेविताः, दशास्यस्य - रावणस्य, चूडामणीनां चक्रं समूहः, दशास्यत्वेन तस्य दश चूडामणयः, तत् चुम्बन्ति तेषामुपरि स्थित्वा तिष्ठन्तीति ते, सुराश्वासुराश्च तेषामधीशाः-सुरा. धीशाः-इन्द्रादयोऽसुराधीशा बलादयस्तेषां शिखान्तेषु-शिखाग्रभागेषु, शेरत इति तथाभूताः, भवच्छिदः-सेवकानां संसारबन्धमोचकाः, त्र्यम्बकस्यशिवस्य, पादपांसवः-चरणरजांसि, जयन्ति-सर्वोत्कर्षेण वर्तन्ते, अतश्च तान् प्रत्यस्मि प्रणत इत्याक्षिप्यते । बाणस्य दैत्यस्यात्रासुरत्वेन निर्देशः ॥ यथा च
"तं शम्बरासुरशराशनिशल्यसार-केयूररत्नकिरणारुणबाहुदण्डम् ।
पीनांसलग्नदयिताकुचपत्रभङ्गं मीनध्वज जितजगत्रितयं जयेत् कः? ॥" अर्थः-शम्बरासुरस्य शरा अशनय इव तस्कृते शल्यवत्-शङ्कवत् सार:-बलं यस्य स चासौ केयूररत्नकिरणैररुणश्च बाहुदण्डो यस्य तम् , पीनयोः-मांसलयोः, अंसयोः-स्कन्धयोः, लग्नः-सक्तः, दयितायाः-रतेः, कुचस्थितः पत्रभङ्गः-पत्रा. कृतिरचनाविशेषो यस्य तम् , जितं जगत्रितयं येन तम् , तं-प्रसिद्धं, मीनध्वजंमत्स्यकेतनं कामं, को जयेत् ?, अपि तु कोऽपि नेत्यर्थः । अन्न दानवस्य शम्बरस्य असुरत्वेनोल्लेखः ॥
For Private And Personal Use Only