________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १०। १११ क्षीरसागर-क्षारसमुद्रयोरेक्यं यथा- .
"शेतां हरिर्भवतु रत्नमनन्तमन्तलक्ष्मीप्रसूतिरिति नो विवदामहे हे [sब्धे !] | हा दूरदूरसपयास्तृषितस्य जन्तोः, किं त्वन्न [त्वं न ] कूपपयसः स मरोर्जघन्यः ॥"
का० मी० अ-१४] अर्थः-अत्र कोष्ठान्तर्गतः पाठोऽपि समुपलभ्यते, स एव चाधिकः शोभनोऽर्थसङ्गत्या, त्वयि हरिः शेतां-शयनं करोतु, हरिशयनकृतं महत्त्वं तेऽस्तु, अन्त:तव मध्ये, अनन्त-संख्यातीतं, रनं जातावेकत्वम् , भवतु, किञ्च लक्ष्मीप्रसूतिःलक्ष्या उत्पत्तिर्भवतु, हे [अब्धे !] अत्र विषये-तव हरिशयनादिकृते माहात्म्ये, नो विवदामहे-विवादं न कुर्मः । किन्तु, हा इति खेदे, तृषितस्य-पिपासितस्य, जन्तोः कृते, दूरम्-अत्यन्तं, दूरसं-दुष्टरसवत्, पयो यस्य स त्वम् , कूपपयसः दुर्लभजलत्वेऽपि पानीयकूपपानीयात् , मरोः-मरुदेशात् , जघन्यः-नीचः। अथवा स त्वं कूपपयसः मरोः किं न जघन्यः? इति कोष्ठस्थपाठानुसार्यन्वयः । ईदृशमहिनोऽपि तव समीपे गतस्तृषितो न तृषाशान्ति लभते, ततो वरमसौ मरुरेव, यत्र कूपजलं तु मिलति, येन तृषाशान्तिरिति भावः ॥
'किं त्वस्ति' इति पाठोऽप्यनुकूल एव । अत्र हरिशयनं लक्ष्मीप्रसूतिश्च क्षीराब्धिः, दूरदूरसपयस्त्वं च लवणोदस्य तथाप्यत्र तयोरक्येन तस्य दूषणमुपनिबद्धम् ॥
सागरा हि प्रतिद्वीपं भिद्यन्ते, महासमुद्रश्च समग्रां पृथ्वी परिक्षिप्य वर्तते, तयोश्चक्यं कविसमयसिद्धम् , यथा--
"रिङ्गत्तरङ्गभूभङ्गैस्तर्जयन्तीमिवापगाः । . स ददर्श ततो गङ्गां सप्तसागरवल्लभाम् ॥"
__[का. मी० अ-१४] अर्थः-स ततः, रिङ्गन्तः-प्रेङ्खमाणा ये तरङ्गाः, तेषां भलैः-त्रुटिभिः, भापगाः-अन्या नदीः, तर्जयन्ती-भीषयन्तीमिव, सप्तानामपि सागराणां समूहभूतस्य महासागरस्य वल्लभां-प्रियां गङ्गां ददर्श, यत इयं सप्तसागरवल्लभा भत एव तत्संगमकाङ्किणीरन्या नदीस्तर्जयतीति भावः, दृश्यते हि लोकेऽपि पत्युरति
For Private And Personal Use Only