________________
Shri Mahavir Jain Aradhana Kendra
१०८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने
"यस्याधोsधस्तथोपर्युपरि निरवधि भ्राम्यतो विश्वमश्वेरावृत्तालातलीलां रचयति रयतो मण्डलं चण्डधाम्नः । सोsव्यादुत्तप्तकार्तस्वर सरलशरस्पर्धिभिर्धामदण्डैरुदण्डैः प्रापयन् वः प्रचुरतरतमः स्तोममस्तं समस्तम् ॥”
[ का० मी० अ- १६]
wwwwwwwww
·
"
>
अर्थः- अश्वैः, विश्वं जगत्, अधोऽधः, तथा उपरि उपरि, निरवधिसततम्, भ्राम्यतः, चण्डधाम्नः - तिग्मदीधितेः यस्य - आदित्यस्य मण्डलं रयतः - वेगात् भावृत्तालातलीलां - भ्रान्तालातचक्रविडम्बनाम्, रचयति कुरुते, उत्तप्तकार्तस्वरस्य- अग्निशुद्धहेम्न्नः, सरलाः- अवक्राः, ये शराः - इषवः, तैः स्पर्धन्त इति तथाभूतैः, उद्दण्डैः-अव्याहतैः, धामदण्डैः - तेजः किरणैः, प्रचुरतरतमः स्तोमं - समधिकान्धकारसमूहम्, अस्तं-नाशं प्रापयन् - गमयन्, सः - आदित्यः वः, अन्यात्- रक्षयेत् । अत्र अधोऽध उपर्युपरि चैकस्यैव भ्रमणमुक्तमिति सर्वेषामैक्यं स्पष्टमेव ॥
タ
एवं नारायण-माधव - विष्णु-दामोदरादीनां लौकिकस्वरूपकृतमेदेऽपि कविसमये ऐक्यम्, यथा
"येन ध्वस्तमनोभवेन बलिजित्कायः पुराखीकृतो, यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः । यस्याहुः शशिमच्छरो हर इति स्तुत्यं च नामामराः, सोsव्यादष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः ॥"
[ सुभाषितावलौ चन्द्रकस्य ]
wwwwwwww wwwwww
अर्थः- अयं श्लोकः सर्वेष्वलङ्कारग्रन्थेषु श्लेषप्रकरणे उदाहृतः परं तत्र पाठभेदः यते, काभ्यप्रकाश ध्वन्यालोक-साहित्यदर्पणेषु दत्तः पाठः समानः, सरस्वतीकण्ठाभरण - काव्यमीमांसावृतः पाठश्चात्रत्येन पाठेन संरूपः, केवल मन्तिमपादे "अष्टभुजङ्गहारवलयः" इत्यस्य स्थाने सरस्वतीकण्ठाभरणे " " इष्ट भुजङ्गहारवलयः” इति पाठः समुपलभ्यते, अयमेव च पाठः समीचीनः प्रतिभाति, उभयपक्षे सुसंघटत्वात् । स्वां, उमाधवः- शिवः, माधवो वा, पाविति सम्बन्धः । तन्न शिवपक्षे व्याख्या- ध्वस्तमनोभवेन- दग्धकामेन, येन बलिजितः - नारायणस्य कायः, पुरा- त्रिपुरदाहव्यतिकरे, अस्त्रीकृतः शरतां नीतः ।
For Private And Personal Use Only