SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधनिवृतौ अध्या० १, सू० १० । तदुक्तं महिम्नस्तोत्रे "रथः क्षोणी यन्ता शततिरगेन्द्रो धनुरथो रथाङ्गे चन्द्राकौं स्थचरणपाणिः शर इति । दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि विधेयैः क्रीडन्त्यो न खलु परतत्राः प्रभुधियः॥" अन्धकस्य-दैत्यविशेषस्य, क्षयकर:-नाशको यः, गङ्गां च दधे-शिरसि गङ्गा दधार; यश्च बर्हिपत्रः-मयूरगाहनः कार्तिकेयः प्रियो यस्य तादृशः, यस्यः शिरः शशिमत्-चन्द्रकलायुक्तम् , यस्य च हर इति स्तुत्यं नाम, अमरा:-देवाः, माहुः; अष्टानां भुजङ्गानां हारो वलयं च यस्य, अथवा “इष्टभुजङ्गहारवलयः" इति पाठे-इष्टानि भुजङ्गानां हारा वलयानि च यस्य सः, स सर्वदा उमायाः-पार्वत्याः, धवः पतिः शिवः, त्वामव्यादिति । - माधवपक्षे-अभवेन-संसारबन्धप्रयुक्तोत्पत्तिरहितेन, येन, अनः-शकर्ट, तदाख्योऽसुरः, कृष्णावतारे नाशितः, ध्वस्तं-पादाघाताचूर्णितम् , बलिं जयतीति तथाभूतः कायः; पुरा-समुद्रमथनोस्थामृतपरिवेषणसमये, स्त्रीकृतः-स्त्रीरूपतां प्रापितः, समुद्रोत्थामृतभोजनाय सुरासुरयोर्विवादे जाते मोहिनीरूपं धृत्वाऽसुरान् विमोह्य तानेकपनो समुपावेश्य अमृतपरिवेषणे तानच्छलयदिति पौराणिकी कथा; अन्धकानां-यदूनाम् , क्षयं-निवासभूमि द्वारकापुरीम् , करोति-निर्मापयतीति तथाभूतः; यः, भगं-गोवर्धनपर्वतं कृष्णरूपेण, गां-पृथिवीमेकार्णवमग्नां वराहरूपेण, दधे-धारयामास; यश्च बर्हिणः-मयूरस्य, पत्राणि-पिच्छानि तेषां प्रियःमुकुटे शोभार्थ तेषां धारयिता, "बर्हिपत्रकृतापीडम्" इति गोपालध्यानेऽभिधानात् ; यस्य शशिनं मनातीति शशिम-राहुः, तस्य शिरो हरतीति तथाभूतः, इति नाम अमरा आहुः । अमृतपरिवेषणसमय एव राहुश्छलेन देवानां पतादुपविष्टोऽमृतं जवाह, तत्कालमेव सूर्याचन्द्रमोभ्यां हरिः संसूचितस्तस्य शिरश्चकर्त चक्रेण, भमृतं च तावत् पीतवान् स इत्यमरत्वं प्राप्तः सूर्याचन्द्रमसौ तदपराधादेव असतीति पौराणिकी कथा । भष्टौ भुजङ्गान् कालियादीन् हन्तीति तथा, "इष्टभुजङ्गाहारवलयः" इति पाठे-इष्टः, भुजङ्गहा-गरुडो यस्य, रवे-शब्दब्रह्मणि लयो यस्य सः, सः, सर्वदः-सर्वेप्सितदाता, माधवः, स्वां पातु । भत्र नारायणश्रीकृष्ण-माधवादीनामैक्यं स्पष्टमेव ॥ For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy