SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रकाशाभिविवृतौ अध्या० १ सू० १० । अर्थ::- वन्द्याः - सर्वेषां प्रणम्याः, विश्वसृजः - सृष्टेरादावुत्पन्नत्वात् तेभ्य एवान्या सर्वां सृष्टिरिति तेषां विश्वसृदत्वम्, युगादिगुरवः- युगानां - सत्ययुगादीनामादौ विद्यमानाः, गुरवः सर्वलोकोपदेशकाः, सप्त स्वायंभुवाः स्वयं भूर्ब्रह्मा ततः समुद्भूताः सप्तर्षित्वेन प्रसिद्धाः, तत्र - तन्मध्ये, अत्रि :- तन्नामा मुनिः, दिवि - आकाशे, नयनजं ज्योतिः सन्दधे - समुत्ससर्ज सः -तज्योतिरेव, चन्द्रोsभवत् - चन्द्रतां गतम्, उद्देश्य प्रतिनिर्देश्ययोरैक्यमापादयत् सर्वनाम क्रमेण तत्तलिङ्गभाग् भवतीति प्रतिनिर्देश्य चन्द्र गतलिङ्गविवक्षया स इति पुल्लिङ्गनिर्देशः, यस्य-चन्द्रस्य, एका कला, देवस्य शम्भो: शिखण्डस्य - चूडाया मण्डनाय मणिरिव स्थिता, शेषाभ्यः पञ्चदशभ्यः स्वाहा स्वधाभ्यां जीवन्तीति ये ते देवाः पितरश्च, स्वाहाजीविनो देवाः, स्वधाजीविनः पितरः सदा अमृतं सुधाम् आप्नुवन्ति - लभन्ते । अत्र चन्द्रस्यात्रिनेत्रसमुत्पन्नत्वमुक्तम् ॥ " समुद्रोत्पन्नत्वं च तस्य यथा Acharya Shri Kailassagarsuri Gyanmandir "यदिन्दोरन्वेति व्यसनमुदयं वा निधिरपामुपाधिस्तस्यायं जयति जनिकर्तुः प्रकृतिता । अयं कः सम्बन्धो यदनुहरते तस्य कुमुदं, विशुद्धाः शुद्धानां ध्रुवमनभिसन्धिप्रणयिनः ॥” www. १०७ [ अनर्धराघवे, मुरारेः ] wwwwwww. अर्थः—अपां निधिः- निधिः समुद्रः, इन्दो:- चन्द्रस्य, व्यसनं - क्षयं, उदयंवृद्धिं च यत् अन्वेति - आनुकूल्येन क्षयं वृद्धिं च प्राप्नोति, तस्य अयम्-अप्रै कथ्यमानः, जनिकर्तुः - उत्पादकस्य समुद्रस्य, प्रकृतिता - जन्यमानसमप्रकृतित्वम्, उपाधिः- साध्यव्यापको धर्मः, किन्तु कुमुदं तस्य - चन्द्रस्य यत् अनुहरते क्षयवृद्धी अनुकरोति, अयं कः सम्बन्धः - नहि चन्द्र-कुमुदयोः कश्चित् सम्बन्धो विज्ञातो येन तदनुसारित्वं तस्य स्यात्, अतश्चैतज्ज्ञायते यत्, विशुद्धाः निर्दोषाः, शुद्धानां तादृशानाम्, ध्रुवं निश्वयेन, अनभिसन्धिप्रणयिनः - निर्व्याजस्नेहिनो भवन्तीति शेषः । अत्र चन्द्रस्य समुद्रो जनयितेति स्पष्टमुक्तम् ॥ द्वादशात्मा दिवाकर इति प्रसिद्धम्, तत्र मासि मासि प्रत्येकमादित्यास्तपन्तीति प्रतिपादितं तत्तदाकरग्रन्थेषु, एवं च तेषां वास्तविको भेदः किन्तु कविसमये तेषामैक्यमेवोपनिबध्यते, यथा For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy