________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने
पवनसूनुरिव-हनूमानिवाऽहं भीमः, [ स्वस्थापि पवनसूनुत्वेन-वायोरंशात् समुद्भूतत्वेन तत्साम्योक्तिरिति तत्वम् , ] द्रोणाचलं-अचलरूपं-पर्वतसमानं द्रोणाचार्यम् , उद्धरामि-उत्पाटयामि, प्रवेशद्वाराच्यावयामि इति भावः । हनूमता सह साम्यसमर्थकं विशेषणमाह-आपातमारुतेति-आपातमारुतेन-आक्रमणवेगजवायुना, विलोडित:-संक्षोभितः, सिन्धुनाथ:-समुद्रो येन स इति हनूमत्पने, सिन्धुनाथः-सिन्धुदेशपालको जयद्रथनृपो येन स इति भीमसेनपक्षे । किं कृत्वेत्याह-हाकारेण-भयसूचकशब्दविशेषेण सह भीताः; परिवर्तिताः-समन्तात् वर्तमाना मत्स्या एव चिह्नं यस्यास्तादृशी, यादवा इव महोदधिः-समुद्रः, तस्य भीमवेलां-भयजनकं तटम् , उल्लङ्घय-उत्प्लुत्येति हनूत्मपक्षे, हाकारेण भीतः, परिवर्तितः-स्वसैनिकनिरीक्षणाय पृष्ठावलोकीकृतः मत्स्यचिह्नः-मीनध्वजः-प्रद्युम्नः सेनापतिर्यस्याः [ यादवसेनायाः सेनापतिः प्रद्युम्न आसीत् , स च कामदेवावतारः, कामदेवश्च मीनध्वज इति तस्यापि मत्स्यध्वजत्वेन प्रसिद्धिः] सा, ताम् , यादवा:-यादवपक्षीया सैनिका एव, महोदधिः-दुर्लक्ष्यत्वात् समुद्रः, तस्य भीमवेलामिति पूर्ववत् , उल्लङ्य-अतीत्य ॥ . अत्रिनेत्रसमुद्रोत्पन्नयोश्चन्द्रयोश्चैक्यम् , द्विधा हि श्रूयते चन्द्रमस उत्पत्तिः, हरिवंशपुराणे तस्य अत्रिनेत्रसमुद्भूतत्वमित्थमुक्तम् । [अत्रेः]
"नेत्राभ्यां वारि सुनाव दशधा द्योतयद् दिशः । तद्गर्भविधिना हृष्टा दिशो देव्यो दधुस्तदा ॥ समेत्य धारयामासुन च ताः समशक्नुवन् । स च ताभ्यः सहैवाथ दिग्भ्यो गर्भः प्रभावितः ॥
पपात भासयल्लोकान् शीतांशुः सर्वभावतः ।" इति । अपरञ्च, तस्य मध्यमानात् क्षीराब्धेरप्युत्पत्तिः पुराणेषु श्रुता, न च तयोः पार्थक्येन व्यवहारः कापि दृष्ट इति कविसमयेऽपि तयोरेकत्वमेवाश्रितम् । यथा"वन्द्या विश्वसृजो युगादिगुरवः स्वायंभुवाः सप्त ये, तत्राविर्दिवि सन्दधे नयन ज्योतिः स चन्द्रोऽभवत् । एका यस्य शिखण्डमण्डनमणिर्देवस्य शम्भोः कला, शेषाभ्योऽमृतमामुवन्ति च सदा स्वाहा स्वधाजीविनः ॥".
[का० मी० अ-१६]
For Private And Personal Use Only