SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० १० १०५ स्वमिति भावः, अतश्च त्वं कामोऽसि, किं-कुतः कारणादात्मानं गृहसे-गोपायसि, न किमपि गोपनकारण लक्ष्यत इति भावः, ततश्च रूपं दर्शय-सर्वमात्मीयं वस्तु गृहीत्वा स्वरूपे तिष्ठ, ननु शङ्करः पुनः कुप्येतेति चेत् ? तत्राह-अत्र शंकरभयं नास्ति, कुतः? सर्वे वयं वैष्णवा:-सर्वेऽवत्या विष्णुभक्ता इति शंकराय स्ववृत्तावेदकः कोऽपि नास्तीति निर्भयो विचरेति भावः । अत्र कामस्य मकरो ध्वज इत्युक्तम् ॥ अन्यत्र च मत्स्यो यथा-- "मीनध्वजस्त्वमसि नो न च पुष्पधन्वा, केलिप्रकाश! तव मन्मथता तथापि । इत्थं त्वया विरहितस्य मयोपलब्धाः, कान्ताजनस्य जननाथ ! चिरं प्रलापाः ॥" [ का० मी० अ-१६] अर्थः- "त्वं मीनध्वजः-मत्स्यकेतनवान् , नो असि न विद्यसे, पुष्पधन्वा-पुष्पमयधनुर्हस्तश्च न असि, केलिप्रकाश! केलिषु-रतिक्रीडासु, प्रकाशते-अतिशयेन शोभत इति सः, एतद्गुणमूलकं कस्यचिन्नाम तत्सम्बुद्धिः, तथापि-मन्मथचिह्नयोरुक्तयोरभावेऽपि, तव-भवतः, मन्मथता-कामदेवत्वमथ च अन्तरुन्मथनजनकत्वम् , हे जननाथ ! त्वया विरहितस्य कान्ताजनस्य इत्थं-पूर्वोक्तप्रकाराः प्रलापाः मया चिरमुपलब्धाः । केनचिद् राज्ञा कार्यवशात् स्वपुरं परित्यज्यान्यत्र तिष्ठता स्वप्रेयसीनां वार्ताहरणाय प्रेषितः कश्चित् तासामवस्थामित्थं ज्याजहारेति प्रतीयते । अत्र कामस्य मीनध्वजत्वमुक्तमिति नैकस्य जनस्य ध्वजे प्रकारभेदः सम्भवतीत्यगत्या मकर-मीनयोरैक्ये पर्यवस्यति ॥ यथा वा आपातमारुतविलोडितसिन्धुनाथो, हाकारभीतपरिवर्तितमत्स्यचिह्नाम् । उल्लङ्घय यादवमहोदधिभीमवेलां, द्रोणाचलं पवनसूनुरिवोद्धरामि ॥" [का० मी० अ०-१६] अर्थः--पद्यमिदं महाभारतीययुद्धप्रसङ्गे सिन्धुदेशराजस्य जयद्रथस्य रक्षणाय यादवसेनया रचिते शकटव्यूहे तं [ जयद्रथ ] संस्थाप्य प्रवेशद्वारे स्वयं तिष्ठति द्रोणाचार्य कथमत्र प्रवेष्टव्यमिति संशयितेषु स्वपक्षीयेषु स्वसामर्थ्यप्रकाशनाय भीमसेनेनोक्तमिति प्रतिभाति । पवनसूनुर्हनूमान् द्रोणाचलमिव-द्रोणपर्वतमिव, For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy