________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने
पुंसां-अधिदग्धपुरुषाणां, मनः, प्रायो-बाहुल्येन, अहमस्या हृदयावर्जको भवेयं न वेति शङ्कया, प्रचलति-वेपते, इति हेतोः अत्र-तव भीती, किं चित्रं ?-किमपि नाश्चर्यमिति । मन्त्र चन्द्रमसः शशाङ्कत्वेनोपादानम् ॥
अन्यत्र च मृगाङ्कत्येन यथा"अकाधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः । केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः ॥"[शि० व० स० २, श्लो-५३ ] अर्थः-युधिष्ठिरेण यज्ञार्थमाहूतः शिशुपालं प्रत्याक्रमणाय च प्रोत्सुकः श्रीकृष्णः किमत्र कर्तव्यमित्युद्धव-बलरामौ पप्रच्छ, तत्र पूर्व बल एव स्वमतमाह, तत्र प्रसङ्गे-ऋजुतायाः, बलप्रयोगस्य च कीदृशः परिणामो भवतीति निदर्शयति-अकम्-उत्सङ्गम् , अधिरोपितः-स्थापितो मृगो येन स चन्द्रमाः, मृगलाज्छन इति ख्यातः, मृगस्तस्य दयनीयत्वेन सम्मत इति वैपरीत्येन स तस्याकीर्तिकरः संवृत्तः । निष्ठुरं-निरनुक्रोशं यथा स्यात् तथा, क्षिप्तः-आक्रम्य निहतः, मृगयूथः-मृगसमूहो येनासौ, केसरी-सिंहः, मृगाधिपः-मृगान् अधिकं पाति रक्षयतीति सः, तत्स्वामी वा ख्यातः । निर्दयतया हता मृगास्तस्य वशगास्तत्कीर्ति. कराश्च संवृत्ता इति शत्रौ मार्दवमनुचितं पौरुषं कीर्तिकरमिति शिशुपालेऽपि पौरुषं प्रयोक्तव्यमिति बलरामोक्तिः । अन्न च मृगलाच्छनत्वेनोक्तिरिति शशमृगयोरैक्यमापतितमेव ॥ एवं कामस्य ध्वजे मकर-मत्स्ययोरक्यमपि कविसमयः, तथा च"चापं पुष्पमयं गृहाण मकरः केतुः समुच्छ्रीयतां,
चेतोलक्ष्यभिदश्च पञ्च विशिखाः पाणौ पुनः सन्तु ते । दग्धा काऽपि तवाकृतेः प्रतिकृतिः कामोऽसि किं गृहसे,
रूपं दर्शय नात्र शंकरभयं सर्वे वयं वैष्णवाः ॥"[ ...] अर्थः-कश्चिदतिशयसुन्दरं पुरुषं काम एव स्वमिति समर्थयमाना काचिनायिकाऽऽह-पुष्पमयं चापं, गृहाण-हस्ते कुरु, मकरः-तदङ्कितस्तपो वा, केतुःध्वजः स्वकामल्यचिह्नम् , समुच्छ्रीयतां-ऊर्वीक्रियताम्, पुनश्च ते पाणी, चेतोलक्ष्य-मनोरूपं शरव्यं ये भिन्दन्ति ते तथाभूताः, पञ्च बिशिखा:-बाणाश्च सन्तु, तथा च स्वकीयानि सर्वाणि चिह्नानि धारयेति भावः । नन्वसौ कामो दग्धः शङ्करे. गति चेत् ? नेत्याह-काऽपि तवाकृतेः-विदाकारस्य, प्रतिकृति:-प्रतिमूर्तिर्दग्धा, न
For Private And Personal Use Only