________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ भध्या० १, सू०१०।
त्पत्तिपदम् । गुणस्य यथा-सामान्योपादाने रत्नानां शोणतैव, पुष्पाणां शुक्लतैव, मेघानां कृष्णतैव । क्रियाया यथा-ग्रीष्मादौ
अर्थः-तापस्य औषण्यस्य, अपहारे-अपनयने, चतुरः-कुशलः, नागानांसर्पाणाम् , आवास:-निवासस्थानम् , सुराणां प्रियः-देवानां प्रीतिकारणम् , चन्दनद्रुमः, मलयात्-एतनामकात् , अद्रेः-पर्वतात् , अन्यत्र न दृश्यते ॥ द्वितीयो यथा
"न्यस्ताक्षरा धातुरसेन यन्त्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः। व्रजन्ति विद्याधरसुन्दरीणामनङ्ग लेखक्रिययोपयोगम् ॥"
[कु० सं० स० १, श्लो० ७] अर्थः-यत्र-हिमालये, धातुरसेन-गैरिकादिधातुद्रवेण, न्यस्तानि-लिखितानि, अक्षराणि यासु ताः, कुञ्जराणां शरीरेषु ये बिन्दवः-स्वाभाविका रक्तवर्णाः पिटिकाः, तद्वत् शोणाः-रक्तवर्णाः, अथवा कुञ्जरबिन्दुसमबिन्दुभिः शोणाः बाहुल्येन तासु तेषां सत्त्वात् , भूर्जत्वचः-भूर्जवृक्षवल्कलानि, विद्याधरसुन्दरीणाम् , अनङ्गलेखक्रियया-कामसम्बन्धिपत्रलेखनकर्मणा, उपयोगं-सार्थक्यं, वजन्ति-प्राप्नुवन्ति । कुमारसंभवे हिमालयवर्णनप्रस्तावे पद्यमिदं तस्य भूर्जोत्पत्तिस्थानत्वमाह ॥ - अथ क्रमप्रासं गुणस्य नियममाह-गुणस्य यथेत्यादिना । यथा सामान्योपादाने रत्नविशेषस्थ नामानुच्चार्य रत्नत्वेन सामान्येन रत्नस्य ग्रहणे, रत्नानां शोणता रक्तवर्णतैवेति नियमः । एवं सामान्यतः-पुष्पत्वेन रूपेण, पुष्पाणामुपादाने तेषां शुक्लतैव शुक्लरूपवत्वमेव, तथा मेघानामपि सामान्यतः कथने कृष्णतैव कृष्णवर्णतैवेति च गुणनियम इति । विशेषतो रत्नादीनामुपादाने तत्तद्रूपतायां न नियमः, एवं पुष्पाणामपि जपापुष्पत्वादिना मेघानां शारदमेघस्वादिरूपेण चोपादानेन तत्तद्वर्णानामपि न नियमः । तन रवानां शोणतेय यथा"सांयात्रिकैरविरतोपहृतानि कूटः, श्यामासु तीरवनराजिषु संभृतानि । रत्नानि ते दधति कच्चिदिहायताक्षि ! मेघोदरोदितदिनाधिपबिम्बशङ्काम् ॥"
[का० मी० अ०-१५] का० ७
.
For Private And Personal Use Only