________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने
mmmmmmmmmmmmmmmm , अर्थ:-आयते-दीघे, अक्षिणी यस्यास्तत्सम्बुद्धौ हे आयताक्षि!, इह-पर्वते, सांयात्रिकैः-पोतवणिग्भिः, तत्त्वेनोपचरितैः, कूटैः-सानुभिः, अविरत-सततम् , उपहृतानि-उपहारीकृतानि, श्यामासु-वृक्षश्रेणिभिरन्धकारयुक्ततया श्यामीकृतासु, वनराजिषु-अरण्यश्रेणिषु, सम्भृतानि-समुच्चितानि, रत्नानि-माणिक्यानि, ते-तव, मेघोदरे-जलदमध्ये, उदितस्य-प्रकाशं गतस्य, दिनाधिपस्य-सूर्यस्य, यत् बिम्ब-मण्डलं, तस्य शङ्का-सन्देह, दधति कच्चित् ?-उत्पादयन्ति किम् ? यथा पोतवणिजो दूरदेशाद् रत्नानि समानीय राज्ञे उपहरन्ति, तथा तत्त्वेनोपचरितैरेतदीयशिखरैः पर्वतायोपहृतानि रत्नानि क्रमशोऽस्य तटप्रदेशीयश्यामायमानवनेषु संचितानि क्षगं मेघयुक्ताकाशे उदयं गतस्य सूर्यस्य सदृशानि लक्ष्यन्त इति भावः । यथा प्रातःकाले मेघाच्छादितं सूर्यबिम्बं विभाति तथैव कृष्णवनसंचितरत्नान्यपीति कथने प्रातःकालिकसूर्यबिम्बेन सह रत्नानां सादृश्यमभिधीयमानं तेषां रक्तत्वं प्रकटयत्येव ।। पुष्पाणां सामान्येनोपनिबद्धानां श्वेततैव यथा"पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद् विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥"
[कु० सं०. स. १, श्लो० ४४] ... अर्थः--पुष्पं-श्वेतकुसुमं, यदि प्रवालोपहितं-नवपल्लवसंस्थितं स्यात्, वाअथवा, मुक्ताफलं-मौक्तिकं, स्फुटं-स्पष्टं यथा स्यात् तथा, विद्रुमे-रक्तमणौ, तिष्ठतीति यथाभूतं स्यात् , ततः-तदा, ताने-रक्तवर्णे, ओष्ठे-दन्तच्छदे, पर्यस्ताःविप्रकीर्णाः, रुचः कान्तयो यस्य तस्य, विशदस्य-स्वच्छस्य, तस्याः-पार्वत्याः, स्मितस्य-ईषद्धासस्य, अनुकुर्यात्-सादृश्यं प्राप्नुयात् । उत्पायोपमालंकारः । अत्र पुष्पमिति सामान्येनोपादाने तस्य श्वेतत्वमेव गम्यते, अत एव श्वेतवर्णेन स्मितेन सह तस्य साम्यम् । यथा श्वेतं पुष्पं रक्तप्रवालोपरि यथा वा श्वेत मौक्तिकं रक्तविद्रुमोपरि भायात् तथैव श्वेतं हास्य ताम्रवर्णोष्ठस्योपरि भातीति कवेरभिप्रायः ॥ एवं मेघानां कृष्णतैव, तस्योदाहरणं यथा
"मेघश्यामेन रामेण पूतवेदिविमानराद । मध्ये महेन्द्रनीलेन रत्नराशिरिवाबभौ ॥" [ का० मी० अ०-१५]
For Private And Personal Use Only