________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने
कानि । द्रव्यस्य यथा-मलय एव चन्दनस्थानम्, हिमवानेव भूर्जी
अम्बुराशि-समुद्रम्, गृहत्वम्-भालयत्वं, मकरालयनामवत्वमित्यर्थः, नयतःप्रापयतः, मकरस्य, दंष्ट्रावलेपः-स्वतीक्ष्णदंष्ट्रागर्वः, वन्द्यः-स्तुत्यः । स्वकीयदंष्ट्राबलेनैव मकरेण सत्स्वप्यन्येषु जलीयजन्तुवर्गरूपदायादेषु प्रसह्य गोत्रस्य मुख्यं वस्तु स्वनाम्ना चिह्नयित्वा स्वावासीकृतमिति भावः । एतेन मकराः समुद्र एव वसन्तीति प्रकटितम् ॥” ताम्रपामेव मौक्तिकानि यथा"कामं भवन्तु सरितो भुवि सुप्रतिष्ठाः,
स्वादूनि सन्तु सलिलानि च शुक्तयश्च । एतां विहाय क्रवर्णिनि ! ताम्रपर्णी
नान्यत्र सम्भवति मौक्तिककामधेनुः ॥" [का० मी० अ० १४ ] अर्थः-वरो वर्णः-शरीररूपं यस्याः सा वरवर्णिनी, तत्सम्बुद्धौ हे वरवर्णिनि !
"शीते सुखोष्णसर्वाङ्गी ग्रीष्मे या सुखशीतला ।
भर्तृभक्ता च या नारी सा भवेद् वरवर्णिनी ॥" इति तल्लक्षणमुक्तं रुद्रेण, हे उत्तमाङ्गने ! भुवि सुप्रतिष्ठाः-पुण्यजनकत्वादिना सुप्रतिष्ठिताः, सरितः-गङ्गाया महानद्यः, कामं भवन्तु, तासु स्वादूनि सलिलानि शुक्त्यश्च काम-यथेच्छ सन्तु, किन्तु एतां-दृश्यमानाम् , ताम्रपर्णी, विहाय-- त्यक्त्वा, अन्यत्र मौक्तिकानां कामधेनुः-यथेच्छमुत्पादयित्री न सम्भवति, अत्रैव मौक्तिकान्युत्पद्यन्ते नान्यत्रेति भावः ।।
जातेनियममुक्त्वा द्रव्यस्य नियममाह-द्रव्यस्य यथेति-द्रव्यस्थान्यत्र सतोऽपि एकत्र नियमः, यथा-मलयः-मलयनामा पर्वत एव, चन्दनस्य-सौगन्धिककाष्ठस्य, स्थान-स्थितिविषयः, उत्पत्तिभूमिर्वा, एवं हिमवान् हिमाचल एव, भूर्जस्य-वनामख्यातस्य वृक्षविशेषस्य, उत्पत्तिपदं-प्रादुर्भूतिस्थानमिति । तत्र प्रथमो यथा
"तापापहारचतुरो नागावासः सुरप्रियः।। नान्यत्र मलयादउद्देश्यते चन्दनद्रुमः ॥" [का० मी० अ०१४]
For Private And Personal Use Only