SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या ० १ सू० १० । जातेर्नियमो यथा - समुद्वेष्वेव मकराः, ताम्रपर्ण्यमेव मौक्ति 3 > अर्थः- यामवतीः - रात्रीः, संक्षिपता-संकोचमानयता, लघुकुर्वतेत्यर्थः, तटिजीनां नदीनां पयः पूरान् तनयता - जलशोषणेन प्रवाहाणां विस्तारमल्पतां नयता च, निदाघेन - ग्रीष्मर्तुना, रथचरणाह्वयवयसां - चक्रनामकपक्षिणाम्, किं नोपकृतम् ? सर्वमुपकृतमिति भावः । रात्रौ चक्रवाका वियुज्य परस्परं नद्या भिन्नताश्रयिणो भवन्तीति कविसमयप्रसिद्धिः, रात्रेश्चाल्पीयसीत्वे विरहकालस्याल्पस्वम्, नद्याः प्रवाहस्य लघुत्वे च भिन्नतटस्थत्वेऽपि पूर्वसमयादपेक्षाकृतं सामीप्यमिति, देश-कालो भय कृतविरहविप्रकर्षो दूरीकृतो निदाघेनेति महदुपकुतमिति हृदयम् ॥ www सतोsनिबन्धनान्यसतो निबन्धनानि च व्याख्याय क्रमप्राप्तं नियमं व्याख्यातुसुपक्रमते- जातेर्नियमो यथेत्यादिना । नियमश्चातिप्रसक्तानां जाति द्रव्य-गुणक्रियाणामेकविषयेऽवधारणमेवेति प्रागुक्तमेव चूडामणी, तन्त्रातिप्रसक्तस्येत्यस्येष्टस्थलादन्यत्राऽपि सम्भवतो जात्यादेरित्यर्थः, तदुक्तं राजशेखरेणापि काव्यमीमांसायाश्चतुर्दशेऽध्याये -'अनेकत्रप्रवृत्तवृत्तीनामेकवावधारणं नियमः' इति । तथा चायमपि पूर्ववत् प्रकारचतुष्टयवान्, तत्र जातेः - सामान्यस्य, अन्यत्राऽपि प्रस तस्यैकत्र नियमनं यथा - नद्यादिष्वपि लोके प्रवृत्तवृत्तीनां मकराणां समुद्रमात्रवृत्तित्वमिति एवं सत्स्वपि मौक्तिकोत्पत्तिस्थानेषु ताम्रपर्णीत्याख्यायामेव नद्यां मौक्तिको त्पत्तिरिति च । तत्र प्रथमो यथा- "गोत्राग्रहारं नयतो गृहत्वं स्वनाममुद्राङ्कितमम्बुराशिम् । दायादवर्गेषु परिस्फुरत्सु दंष्ट्रावलेपो मकरस्य वन्द्यः ॥ " [ का० मी० अ० १४ ] wwwwwww ९५ अर्थः- दायादवर्गेषु - दायं - दातव्यं भागम्, आददत इति दायादाः सोदरअत्रादिसगोत्राः, तेषां वर्गाः- समूहाः, तेषु, परिस्फुरत्सु - सर्वतः स्वसामर्थ्य प्रकटनपूर्वकं संचरत्सु, अग्रे पूर्व हियते ममैवायमप्रभाग इति कृत्वेति- अग्रहारः, गोत्रस्य - कुलस्य, अग्रहारः - गोत्राप्रहारः, तं - कुलस्य मुख्यं धनम्, स्वनाममुजाङ्कितं - -स्वस्य नामैव मुद्रा - प्रत्ययकारिचिह्न, तेन अङ्कितं चिह्नितं यथा स्यात् तथा, - For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy