________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने तव यशसा, दिग्वधूनां मुखे-दिश एव वध्वो वधूत्वेनोपचरितास्तासां वदने, अथ च तत्प्रान्तभागे, अकस्मात्-अन्यकारणराहित्येऽपि, अर्धकुङ्कुमम्-अर्धभागे कुम काश्मीरजं जातम् । स्त्रीणां मुखोपरि सौभाग्य-सौन्दर्यादिवर्धनाय कुङ्कुमलेपः क्रियते, तत्र दिग्वधूनां मुखे वर्णनीयराजगुणरागेण कुश्मस्थानीयेन दिक्षु गच्छताऽधं मुखस्य लिप्तमधं च श्वेतवर्णेन यशसेत्यनुरागस्य रक्तत्वं स्पष्टम् ॥
एवमसत्या अपि क्रियायाः सत्त्वेन निबन्धः, यथा चकोरेषु चन्द्रिकापानस्य वस्तुगत्याऽसतो निबन्धः क्रियते, एवं चक्रवाकमिथुनेषु स्त्री-पुंसोभिन्नतटाश्रयणस्य निशि निबन्धः क्रियते।। तत्र चकोरे चन्द्रिकापानं यथा"एतास्ता मलयोपकण्ठसरितामेणाक्षि ! रोधोभुव
श्वापाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः । यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः, पीयन्ते विवृतोचञ्च विचलत्कण्ठं चकोराङ्गानाः ॥"
[का० मी० अ० १५] अर्थः--एणाक्षि!-एणस्य-मृगविशेषस्याक्षिणी इव अक्षिणी यस्याः सा एणाक्षी, तत्सम्बुद्धौ हे एणाक्षि!, एताः, ताः-प्रसिद्धाः, भगवतो मनोजन्मनः, प्रेयः, चापाभ्यासनिकेतनं मलयोपकण्ठसरितां रोधोभुवः, सन्तीति शेषः, कामस्य प्रियतरधनुर्विद्याभ्यासस्थानभूता मलयपर्वतप्रान्तभागस्थनदीनां तटप्रदेशा एते इत्यर्थः । यासु-रोधोभूमिषु, श्यामनिशासु-कृष्णपक्षीयरात्रिषु, पीततमस:कृतान्धकारपानाः, चकोराङ्गनाः-चकोर्यः, विवृतोर्वचच-विवृता-विस्तारिता, अर्चीकृता, चञ्चुर्यस्मिन् कर्मणि तद् यथा स्यात् तथा, एवं विचलन-पानसमये स्वभावत एव चञ्चलः, कण्ठः-गलप्रदेशो यस्मिंस्तथाभूतं यथा स्यात् तथा, क्रियाविशेषणद्वयमिदम् , मुक्तामयी:-मौक्तिकविकारा इव, मौक्तिकप्रचुरा वा, चन्द्रिकाः-ज्योत्स्नाः, पीयन्ते-पिबन्ति, देवादिकस्य पीयते रूपम् ॥ चक्रवाकमिथुनस्य भिन्नतटाश्रयणं यथा---
"संक्षिपता यामवतीस्तटिनीनां तनयता पयःपूरान् । स्थचरणाहृयवयसां किं नोपकृतं निदाघेन ? ॥"
[का० मी० अ० १४]
w
For Private And Personal Use Only