SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशामिधविवृतौ अध्या० १, सू० १० । अर्थः-अत्र काव्यमीमांसाया वटपत्तनमुद्रित संस्करणे दशकन्धरस्येति स्थाने हयकन्धरस्येति पाठो दृश्यते, तथा च तन्मात्रस्य व्याख्याने भेदः, अन्यत् सर्व समानमेव । दशकन्धरस्य-दशसंख्याकाः कन्धरा यस्य तस्य, दशमुखस्य-रावणस्य, हयकन्धरस्य-हयस्य-अश्वस्य, कन्धरेव कन्धरा यस्य तस्य हयग्रीवनाम्नोऽसुरस्यति वा,उत्खात:-कोशात् समुद्धृतो यो निर्मल:-स्वच्छः, कृपाणः-खड्गः, तस्य मयूखलेखाभिः-किरणपतिभिः, श्यामायिता-कालिमान प्राप्ता, तनुः-शरीरम् , सद्यःतस्मिन् क्षण एव, प्रकोपेन-क्रोधावेशेन, कृतो यः केशवस्य-केशवावतारस्य रामस्य विष्णोर्वा, वंशनाशस्य-सन्ततिविच्छेदस्य, संकल्पः, तेन संजनितं यत् पापं वंशच्छेदस्य पापाधायकत्वात् , तेन मलीमसेव-मलिनेव, अभूत्-आसीत् । तथा च पापस्य कृष्णता स्पष्टमेवोक्तेति ।। क्रोधस्य रक्तत्वं यथा "आस्थानकुट्टिमतलप्रतिबिम्बितेन, कोपप्रभाप्रसरपाटलविग्रहेण । भौमेन मूछितरसातलकुक्षिभाजा, भूमिश्चचाल चलतोदरवर्तिनेव ॥" [का० मी० अ० १५] अर्थ:-आस्थानस्य-सभामण्डपस्य, यत् कुट्टिम-निबद्धं तलं-तलप्रदेशः, तत्र प्रतिविम्बितेन-संक्रान्तच्छायेन, कोपस्य प्रभायाः प्रसरेण-विस्तारेण पाटल:-रकवर्णः, विग्रहः-शरीरं यस्य तेन, मूछिता-पुत्रपराभवशङ्कया मोहमुपगता, या रसा-पृथ्वी तस्याः, तलं-पातालं, तस्य कुक्षिः-मध्यप्रदेशस्तं भजति तेन, तत्र स्थितेनेत्यर्थः, चलता-श्रीकृष्णेन सह युद्धार्थ बजता, भौमेन-नरकासुरेण, उदरवर्तिना इव-उदरस्थितेनेव, भूमिः-धरा, चचाल-चकम्पे, रसातले भौमेन सह श्रीकृष्णस्य युद्धमभूत् तस्य सभामण्डप एव, तत्र भौमचलनेन पृथ्थ्यपि चलति, मातुरुदरस्थितेन बालेन चलता माता कम्पते, भूमिश्च तस्य मातेति तस्याः कम्पो युक्त एव । अत्र भौमस्य क्रोधेन रक्तविग्रहत्वमुक्तम् । अनुरागस्य रक्तत्वं यथा "गुणानुरागमिश्रेण यशसा तव सर्पता । दिग्वधूनां मुखे जातमकस्मादर्धकुङ्कुमम् ॥" [का० मी० अ० १५] अर्थः-गुणानुरागमिश्रेण-गुणेषु योऽनुरागो दृढः स्नेहस्तद्युतेन्ट, सर्पता-प्रसरता, For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy