SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९० सालङ्कारचूडामणौ काव्यानुशासने अर्थः-मुष्टिग्राह्य-मुष्टिपरिच्छेद्यमथवाऽतिसमीपतया मुष्टिधारणयोग्यम् , तमः-अन्धकारः, ककुभः-दिशः, तनुलग्ना इव-सर्वा दिशः संकुच्य शरीरस्य समीपमागता इव, मावलयं-भूमण्डलं यत् पूर्वमपरिच्छेद्यं प्रतीयते स्म तत् , चरणचारमानं-यावति चरणौ कथंचिञ्चरतस्तस्परिमितम्, इव, दिवम्-अनन्त-- तया विख्यातमाकाशम् , अलिकदन्नी-भालप्रदेशपरिमिताम्, इव, कुरुते । तमसा स्वशरीरमानं सर्व प्रतिभाति, दूरे किञ्चिन्न विभाव्यत इत्याशयः । अत्र च तमसो मुष्टिग्राह्यत्वं स्पष्टमेव निबद्धम् ॥ तमसः सूचीभेद्यत्वं यथा "पिहिते कारागारे तमसि च सूचीमुखाग्रनिर्भद्ये । मयि च निमीलितनयने तथापि कान्ताननं व्यक्तम् ॥" [का० मी० अ० १४] अर्थः-कारागारे-बन्दीगृहे, पिहिते सति, तमसि-अन्धकारे च, सूचीमुखस्याग्रभागेन भेदनयोग्ये-अतिघनतां याते सति, मयि च निमीलितनयने सति, तथापि-सर्वथा व्यक्तीभवनयोग्यताया अभावे सत्यपि, कान्ताननं व्यक्तं-प्रत्यक्षरूपेणादृश्यत । कारागारे स्वत एव प्रवेशोऽसाध्यः, तत्रापि तत् पिहितम् , पिधानाञ्च रात्रिकृतस्य तमसः सान्द्रताऽपि युक्तैव, एवं चेदृशे तमसि नेत्रव्यापाराभावेऽपि तन्मुखं मे प्रत्यक्षमिवादृश्यतेत्यहो भावनावैचित्र्यमिति भावः । अत्र सूचीभेद्यत्वोक्तिः स्पष्टैव ॥ ज्योत्स्नायाः कुम्भोपवाह्यत्वादि यथा "शङ्खद्रावितकेतकोदरदलस्रोतःश्रियं बिभ्रती, येयं मौक्तिकदामगुम्फनविधेयॊग्यच्छविः प्रागभूत् । उत्सेक्या कलसीभिरक्षलिपुटैह्या मृणालाकुरैः, पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥" [का० मी० १० १४] अत्र 'शङ्खद्रावित' इत्यस्य स्थाने काव्यमीमांसायां यन्त्रद्रावित' इति पाठः, सरस्वतीकण्ठाभरणे द्वितीयपरिच्छेदे च 'सद्योगावित' इति पाठः, सर्व एव च पाठोऽर्थयोजने समर्थ इति, विवेकगृहीत एव पाठः स्वीकृतः । For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy