________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १० ।
वा, व्याप्तं दिशां चक्रवालं-समूहो येन, अथ च स्वर्णस्य-कनकस्य, विस्तारण व्याप्तो दिशां समूहो येन, एषः-वर्णनीयः पर्वतः, साम्यात्-उक्तधर्माणां सादृश्यात् , अम्बुराशेः-समुद्रस्य, सख्यं-मित्रतां सादृश्यं वा, जग्मिवान्-प्राप्तः, तेन हेतुना जीमूतभर्ता जीमूतानां-मेघाना, भर्ता-धारकः, इति ख्यातः, अत्युच्चतया, शिरसि मेघान् धारयति, समुद्रस्तु मेघानां भर्ता-पूरको जलदानेनेत्युभावपि जीमूतभर्तृत्वेन ख्याती प्रसिद्धौ । अत्र सुमेरुपर्वताद् भिन्नेऽप्यत्र पर्वते स्वर्णस्य सत्त्वमुपनिबद्धम् ॥ सर्वेषु पर्वतेषु रत्नानामुपनिबन्धो यथा"नीलाश्मरश्मिपटलानि महेभमुक्त
सूत्कारसीकरविसृद्धि तटान्तरेषु । आलोकयन्ति सरलीकृतकण्ठनालाः, ___ सानन्दमम्बुदधियाऽत्र मयूरनार्यः ॥" [का० मी० अ० १४] अर्थः-अत्र-पर्वते, सरलीकृतकण्ठनालाः-ऋजूकृतगलप्रदेशाः, मयूरनार्यःमयूर्यः, तटान्तरेषु-स्वाश्रिततटभिन्नतटेषु, महेभैः-महागजैः, मुक्तान् सूत्कारसीकरान्-नासिकाशब्देन सह निर्गच्छतो जलकणान् , विसृजन्ति यानि तानि, नीलाश्मरश्मिपटलानि-नीलमणिकिरणजालानि, अम्बुधिया-मेघबुद्ध्या, सानन्दम् ,आलोकयन्ति-पश्यन्ति । नीलाश्मरश्मिसमूहे जायमाना जलदभ्रान्तिहस्तिशुण्डामुक्तजलकणपातेन परिपोष्यते, जलदागमे च मयूरीणामानन्दः स्वाभाविक एव । अत्र च वर्णनीये साधारणे पर्वतेऽपि नीलरत्नानामसतामपि सत्त्वेन निबन्धः ॥
असतो द्रव्यस्य सत्त्वेन निबन्धनं यथा-तमसि-अन्धकारे, केषाञ्चिन्मतेऽभावरूपे, बहूनां मते रूपक्रियाद्याश्रयिद्रव्यरूपत्वेऽपि, मुष्टिग्रहणादियोग्यतायाः सर्वथाऽभावेऽपि मुष्टिग्राह्यत्वस्य-मुष्टिविषयीकरणयोग्यतायाः, सूचीभेद्यत्वस्यसूचीकरणकभेदनकर्मतायाश्च निबन्धः । तन्त्र मुष्टिग्राह्यत्वं यथा"तनुलग्ना इव ककुभः, क्ष्मावलयं चरणचारमात्रमिव । दिवमिव चालिकदन्नी मुष्टिग्राह्यं तमः कुरुते ॥"
[वि. शा. भ. प. ३. श्लो. ६०]
wwwwwwwwww
For Private And Personal Use Only