________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामों काव्यानुशासने
पनिबन्धः । यद्यपि हंसा मानसादिजलाशयविशेषेष्वेव तिष्ठन्तीति लोकप्रसिद्धिः, तथापि कविभिर्वर्णनीयजलाशयमात्रे तेषां सत्त्वमुपनिबध्यते, यथा"भासीदस्ति भविष्यतीह स जनो धन्यो धनी धार्मिको,
यः श्रीकेशववत् करिष्यति पुनः श्रीमत्कुडङ्गेश्वरम् । हेलान्दोलितहंससारसकुलफ्रेङ्कारसम्मूञ्छितै
रित्याघोषयतीव तनवनदी यच्चेष्टितं वारिभिः॥"[का० मी० भ०१४] अर्थः-आसीदस्ति भविष्यतीत्यनेन कालत्रयनिर्देशः, तथा च कालत्रयेऽपि स एवं जनो धन्यः-कृतकृत्यः, धनी-प्रशस्तधनवान् , धार्मिकश्च, यः श्रीकेशववत्राजामात्यवत् , केशवनामा कश्चन राजकुलामात्यो वित्ताधिकृतः, उज्जयनीस्थं कुडङ्गेश्वरप्रासादं यस्य चर्चा प्रबन्धचिन्तामणौ सिद्धसेनप्रबन्धे समागता तं पुनः संस्कारेण समधिकशोभाशालिनं चकारेत्यैतियं श्रूयते, श्रीमन्त-कान्तियुक्तम् , कुडङ्गेश्वर-तन्नामकप्रासाद, पुनः करिष्यति, इति यच्चेष्टितं यदीयक्रियाकलापम् , तन्नवनदी-तस्य-प्रासादस्य, समीपे परिखारूपेण विहिता काचन नवीना नदी, तत्रत्या 'तन्नव'नानी वा काचन नदी, हेलया-अनायासेन, आन्दोलितानाक्षोभितानां, हंसानां सारसानां च जलचरपक्षिविशेषाणां, कुलस्य-समूहस्य, क्रेङ्कारेण-स्वजातिस्वभावसिद्धशब्देन, सम्मूछितैः-संमिश्रितैः, तदीयशब्दसङ्कलितशब्दैरिति भावः, वारिभिः-जलतरङ्गैः, तद्भतशब्दैरिति भावः, आघोषयतीवप्रख्यापयतीवेत्युत्प्रेक्षा । तत्प्रासादसमीपस्थनदीप्रवाहविक्षोभेण शब्दायमानजलचरहंसादिपशिशब्दमिश्रिततया द्विगुणितेन तरङ्गध्वनिना श्रीकेशवकीर्तिस्तस्सदृशकार्यकारिभूतभविष्यद्वर्तमानजनधन्यवख्यापनपूर्वकं ख्याप्यत इवेति सारांशः। अत्र प्रासादसमीपस्थजलाशयेऽपि हंससत्त्वमुपनिबद्धमिति ध्येयम् ॥ एवं यत्र तत्र पर्वतेऽसतामपि सुवर्णरत्नादीनां निबन्धः, सुवर्णस्य यथा"नागावासश्चित्रपोताभिरामः, स्वर्णस्फातिव्याप्तदिक्चक्रवालः । साम्यात् सख्यं जग्मिवानम्बुराशेरेष ख्यातस्तेन जीमूतभर्ता ॥"
- [का० मी० अ० १४] अर्थः-नागानां सर्पाणामथ च हस्तिनाम् , भावासः-निवासस्थानम् , चित्रैः पोतैः-जलयानैः, अथ च चित्राणां-सर्पविशेषाणां व्याघ्रविशेषाणां च, पोतैःशावकैः, अभिरामः-सुन्दरः, स्वर्णसः-शोभनजलस्य, स्फात्या-विस्तारेण वृद्धया
For Private And Personal Use Only