SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ha...anaamsan.. प्रकाशाभिधविवृतौ अध्या० १, सू० १०। ८७ दीनां, जलाशयमात्रेऽपि हंसादीनां, यत्र तत्र पर्वते सुवर्णरत्नादीनामिति । द्रव्यस्य यथा-तमसि मुष्टिग्राह्यत्वस्य सूचीभेद्यत्वस्य च, ज्योत्स्नायां च कुम्भोपवाह्यत्वादेः । गुणस्य यथा-यशो-हासादौ शौक्लयस्य, अयशः-पापादौ कार्यस्य, क्रोधा-नुरागयो रक्तत्वस्य । क्रियाया यथा-चकोरेषु चन्द्रिकापानस्य, चक्रवाकमिथुनेषु निशि भिन्नतटाश्रयणस्य। नद्यामसतो नीलोत्पलस्य निबन्धो यथा"गगनगमनलीलालम्भितान् स्वेदबिन्दून् , मृदुभिरनिलवारैः खेचराणां हरन्तीम् । कुवलयवनकान्त्या जाह्नवीं सोऽभ्यपश्यद् , __दिनपतिसुतयेव व्यक्तदत्ताकपालीम् ॥" [का० मी० अ० १४] अर्थः-अत्र "मृदुभिरनिल चारैः" इति काव्यमीमांसास्थः पाठः, स एव चार्ययोजने सुकर इति तमाश्रित्यैव व्याख्यायते, सः-वर्णनीयः प्रकृतो नायकः, मृद्धुभिः-कोमलैः, अनिलचारैः-वायुचलनैः, खेचराणां-आकाशगामिना सिद्धादीनाम् , गगने गमनस्य या लीला तया लम्भितान्-उत्पादितान् , स्वेदविन्दून् हरन्तीम् , कुवलयानां-नीलोत्पलानां, वनस्य-समूहस्य, कात्या-प्रभया, दिनपतिसुतया-कालिन्द्या, व्यक्तं-प्रकटं, दत्ता अङ्कपाली-क्रोड आसनार्थ यस्यास्तामिव, जाह्नवीं गङ्गामपश्यत् । भत्र जाह्नव्यां कुवलयानां वनानि, नीलकान्तियोगेन तस्या यमुनासङ्गं विडम्बयन्तीति कवेरुत्प्रेक्षा । तथा च तत्र नीलोत्पलसत्त्वं निबद्धमिति ॥ चूडामणौ पद्मनीलोत्पलादीनामित्यत्रादिशब्देन कुमुदादीनि जलीयपुष्पाणि ग्राह्याणि, तेषामपि यथासंभवं वर्णनमन्वेषणीयम् । यथा कुमुदानां नद्याम् "रेवाजले विकसिता कुमुदावलिरावभौ। ___कौतुकेन तरन्तीव बालहंसपरम्परा ॥" [ अर्थः-रेवाजले विकसिता कुमुदावलिः, कौतुकेन तरन्ती बालहंसपरंपरा इव भावभौ । कुमुदानां श्वेतत्वेन हंसः समानवर्णतया प्रवाहगत्या च गतिमत्त्वप्रतीते लहंससमूहसाम्यं तेषामुचितम् । तथा च नद्यां कुमुदानां सत्त्वमुपनिबद्धमिहेति ॥ ... एवं जलाशयमात्रे यत्र तत्र साधारणजलाशयेऽपि हंसादीनामसतामप्यु ] For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy