SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ कान्यानुशासने असतोऽपि सामान्यस्य निबन्धो यथा-नदीषु पद्मनीलोत्पला. एवं सतां जाति-द्रव्य-गुण- क्रियाणामनिबन्धनं व्युत्पाद्य साम्प्रतमसतो निबन्धनमपि कविसमयसिद्धं व्याख्याति-असतोऽपि सामान्यस्य निबन्ध इत्यादिना; असतोऽपि वस्तुगत्या अविद्यमानस्यापि, सामान्यस्य-तत्तजातेः, सत्त्वेन निबन्धः-उल्लेखः, यथा नदीवसतामपि पद्मनीलोत्पलादीनां सत्त्वेन निबन्धनम् , तद्यथा "दी/कुर्वन् पटुमदकलं कूजितं सारसानां, प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः, शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥" [ मे० दू० पू० ३१] अर्थः-“यत्र प्रत्यूषेषु पटुमदकलं सारसानां कूजितं दी(कुर्वन् , स्फुटितकमलामोदमैत्रीकषायः, अङ्गानुकूलः, शिप्रावातः प्रार्थनाचाटुकारः प्रियतम इव स्त्रीणां सुरतग्लानि हरति" इत्यन्वयः। यक्षो विशालानगरी वर्णयन्नाह-यत्र-विशालायां, प्रत्यूषेषु-अहर्मुखेषु, पटु-प्रस्फुटम् , मदेन कलम्-अव्यक्तमधुरम् , सारसानांपक्षिविशेषाणां हंसानां वा, कूजितं-रुतं, दीर्धीकुर्वन्-वर्धयन् यावद् दूरं वातो याति यावद् वा वातो वाति तावत् तेषां शब्दस्यानुवर्तनात् स्फुटितानां-विकसिताना, कमलानां-पङ्कजानाम् , आमोदेन-सौरभेण सह या मैत्री, तेन कषायःसुरभिः "रागद्रव्ये कषायोऽस्त्री निर्यासे सौरभे रसे।” इति यादवः, अङ्गानुकूलः-गात्रसुखस्पर्शः, शिप्रावात:-तत्रत्यनदीविशेषसम्बन्धिपवनः, प्रार्थनायांसुरतयाच्चायां, चाटु-प्रियवचनप्रयोगं करोतीति तथोक्तः, प्रियतमः-वल्लभ इव स्त्रीणां सुरतग्लानिं-संभोगखेदं, हरति-अपनयति । भन्न शिप्रावाते प्रयुक्तानि विशेषणानि प्रियतमेऽपि यथायथं योज्यानि, तथाहि-सोऽपि स्वचाटुवाक्यानुसारिक्रीडापक्षिकूजितमविच्छिन्नीकुर्वन् , किञ्च सुरतविमर्दैन मर्दितानां कमलानामामोदेन युक्ततया तदीयगन्धयुक्तः, अङ्गानामशिथिलपरिरम्भदानादिमिरनुकूलश्च भवति, एवंभूतश्च सः स्वचाटूक्तिभिर्विस्मृतपूर्वरतिखेदाः स्त्रियः करोति, तथा च तास्तस्य प्रार्थनां सफलयन्तीति भावः । भन्न शिप्रानद्यां कमलसद्भावेनैव नदीयामोदेन वायोः सौरभयोग उक्तः, तत्र कमलयोगश्चासमेव सत्त्वेन वर्णितः ॥ For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy