SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० १० । M क्रमप्राप्तायाः क्रियायाः सत्या अप्यनिबन्धः, यथा नीलोत्पलाना-नीलकमलानां दिवा सतोऽपि क्रियारूपस्य विकासस्यानिबन्धः । यथा "आलिख्य पत्रमसितागुरुणाऽभिरामं, रामामुखे क्षणसभाजितचन्द्रबिम्बे । जातः पुनर्विकसनावसरोऽयमस्ये त्युक्त्वा सखी कुवलयं श्रवणे चकार ॥" [का० मी० अ० १४] अर्थः- "सखी असितागुरुणा अभिरामं पत्रं आलिख्य, रामामुखे क्षणसभाजितचन्द्रबिम्बे [ सति ] पुनः 'अस्य विकसनावसरो जातः' इत्युक्त्वा श्रवणे कुवलयं चकार" इत्यन्वयः । नायिका विभूषयन्ती सखी तस्याः कपोलोपरि असितागुरुणा-कालागुरुक्षोदेन, अभिराम-सुन्दरं, पत्रं-शोभाकरं विशेषकम् , आलिख्य-रचयित्वा, रामामुखे-प्रकृतनायिकाया वदने, क्षण-कालागुरुपस्थितिकालपर्यन्तमेव, तावतैव निष्कलङ्कस्यास्या मुखस्य तेन साम्यमिति भावः, सभाजित-स्वसाम्यप्रदानेन कृतार्थीकृतं चन्द्रबिम्ब येन तथाभूते सति, पुनः-अनन्तरम् , 'अस्य-कुवलयस्य, विकसनावसरः-प्रफुल्लताप्राप्तिसमयः, चन्द्रोदये तस्य विकास इति प्रसिद्धस्त्वन्मुखरूपस्य चन्द्रस्योदयात् , जात:-प्राप्तः' इत्युक्त्वा, श्रवणेतस्याः कर्णयोः, कुवलयं-नीलोत्पलं, चकार-परिधापयामास । अत्र यद्यपि दिवाऽस्य विकासो न भवति, तथाऽपि त्वन्मुखचन्द्रोदयाद् रात्रिमभिसमीक्ष्येदं विकसितं स्यादिति सखीवाच्यम् ॥ तथा निशानिमित्तस्य शेफालिकाकुसुमानां विस्रंसस्यानिबन्धो यथा• "त्वद्विप्रयोगे किरणैस्तथोरैर्दग्धाऽस्मि कृत्स्नं दिवसं सवित्रा । इतीव दुःखं शशिने गदन्ती शेफालिका रोदिति पुष्पबाष्पैः ॥" [का० मी० अ० १४] अर्थः—'त्वद्विप्रयोगे-दिवा स्वद्विरहे जाते, सवित्रा-सूर्येण, तथा-प्रसिद्धैः, उप्रैः-तीक्ष्णैः, किरणैः, कृत्स्नं दिवसमभिन्याप्य दग्धाऽस्मि' इति दुःखं शशिने गदन्ती शेफालिका पुष्पाण्येव बाष्पाणि तैः सह रोदिति । नायं शेफालिकाकुसुमानां निशानिमित्तः पातः, भपि तु सा प्रियदर्शनाद् विवृद्धदुःखा तत्सूचनाय सबाष्पं शेवितीवेत्युप्रेक्षा ॥ For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy