SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने स्वच्छकान्तिरभवत् , अत्र स्वाभाविकवर्णशुद्धः स्नानहेतुकत्वमुत्प्रेक्ष्यते, स्मितपूर्वाभिभाषी हरिरिति भावः । अत्र कुन्दकुमलानामिव तदुपमितकामिदन्तानामपि श्वेतत्वमात्रं वर्णनीयत्वेनोपन्यस्तं तन्मूलगता रक्तता च नोपनिबद्धेति ॥ एवं कमलमुकुलप्रभृतीनां सदपि हरितत्वं न निबन्धनीयम् , यथाउद्दण्डोदरपुण्डरीकमुकुलभ्रान्तिस्पृशा दंष्ट्रया, मनां लावणसैन्धवेऽम्भसि महीमुद्यच्छतो हेलया। तत्कालाकुलदेवदानवकुलैरुत्तालकोलाहलं, शौरेरादिवराहलीलमवतादभ्रंलिहाग्रं वपुः ॥ [का० मी० अ० ९५] अर्थः-उद्दण्डम्-उच्छ्रितम् , उदरं-मध्यभागो यस्य तादृशं यत् पुण्डरीकमुकुलं-सिताम्भोजकलिका तस्य भ्रान्ति-भ्रमं स्पृशति या तया, दंष्ट्रया, लावण. सैन्धवे-लवणसमुद्रसम्बन्धिनि, अम्भसि-जले, मनां महीं, हेलया-अनायासेन, उद्यच्छतः-उपरि मानयतः, शौरेः-हरेः, तत्काले- तस्मिन् काले, आकुलानां देवदानवानां कुलैः-समूहः, 'युतैः' इति विवेके पाठः, उत्ताल.-प्रभूतः कोलाहलो यत्र तत्, आदिवराहस्य-प्राथमिकशूकरस्य, लीला-अनुकरणं यत्र तादृशम् , अभंलिहाग्रं-मेघस्पर्शिमूर्धभाग, वपुः-शरीरम् , भवतात्-सर्वविधभयेभ्यो रक्षतु । अत्र स्वभावसिद्धश्वेतरूपायां दंष्ट्रायां पुण्डरीकमुकुलभ्रान्तिवर्णनामुखेन साम्यं वर्णयता कविना तस्मिन् पुण्डरीकमुकुले सतोऽपि हरितत्वस्य निबन्धनं त्यक्तमिति गम्यते ॥ एवं सतोऽपि प्रियङ्गुपुष्पाणां पीतत्वगुणस्यानिबन्धः, यथा "प्रियङ्गुश्याममम्भोधिरान्ध्रीणां स्तनमण्डलम् । अलङ्कर्तुमिव स्वच्छाः सूते मौक्तिकसम्पदः ॥"[ ] अर्थ:-अम्भोधिः, प्रियङ्गुपुष्पवत् श्यामम् , आन्ध्रीणाम्-आन्ध्रदेशोनवस्त्रीणाम् , स्तनमण्डलं-मण्डलाकारं स्तनम् , अलङ्कतु-शोभयितुमिव, स्वच्छा:श्वेताः, मौक्तिकसम्पदः-मुक्तारूपाः समृद्धीः, सूते-उत्पादयति । श्यामेषु स्तनेषु श्वेतमौक्तिकहारेणाधिका शोभा स्यादिति विचार्येव समुद्रेण मौक्तिकान्युत्पाद्यन्त इत्युत्प्रेक्षा । अत्र प्रियमुपुष्पे पीतस्व-श्यामत्वयोरुभयोः सत्त्वेऽपि श्यामत्वमेक वर्ण्यते, न पीतत्वम् , तदीयश्यामताया एवाधिकसौन्दर्ययोगात् ॥ For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy