________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १ सू० १० ।
८३
अर्थः- तत्र यात्रायां सकुतूहलैर्जनैर्बलभद्रप्रलम्बन्नौ सिताऽसितौ पक्षौ इव ददृशाते, कंसेनाहूतौ बलराम कृष्णौ मथुरायां यात्रायां गच्छन्तौ बहुदिनेभ्यः श्रुतचरित्रत्वेऽपष्टतया कुतूहलसहितैर्मनुष्यैर्बलरामः शुक्लपक्ष इव, प्रलम्बन्न:श्रीकृष्णस्तु कृष्णपक्ष इव दृष्टः, अन्रोभयोः पक्षयोज्योत्स्नानिमित्तकशुक्लत्व-कृष्णस्वाविशेषेऽपि गौरवर्णस्य बलभद्रस्य शुक्लेन कृष्णवर्णस्य प्रलम्बघ्नस्य च कृष्णपक्षेणोपमानं कृतमिति तत्र ज्योत्स्ना न निवध्यत इति प्रतीयते ॥
तुल्यन्यायेन शुकपक्षे स्थितस्यान्धकारस्यानिबन्धो यथा
"मासि मासि समा ज्योत्स्ना, पक्षयोः कृष्ण-शुक्लयोः ।
wwwww
तत्रैकः शुक्कतां यातो, यशः पुण्यैरवाप्यते ॥" [ का० मी० अ० १४ ] उभयोः पक्षयोः प्रतिमासं ज्योत्स्नासाम्येऽप्येकस्य शुकत्वेन ख्यातिर्नापरस्य यतो यशसि न केवलं गुणसत्ता नियामिकाऽपि तु पुण्याख्यमदृष्टं तत्र कारणमिति । अत्र तमसः शुक्के सतोऽप्यनिबन्धः । ननु तमसो द्रव्यत्वं नैयायिकैरनङ्गीकृतमिति कथं द्रव्यस्य सतोऽनिबन्धनस्योदाहरणत्वमिति चेत् ? न - आर्हतैः सांख्यैर्वेदान्तिभिश्च तमसो द्रव्यत्वस्वीकारात् ॥
www.w
wwww
wwwww.ˇˇˇˇ
जाति- द्रव्ययोरनन्तरं गुणस्यैव क्रमतः प्राप्तिरिति सतोऽपि तस्य वचनानिबन्धः, यथा कुन्दकुड्मलानां कामिदन्तानां च मूले रक्तत्वसत्वेऽपि रक्तत्वं तत्र न निबध्यते, यथा
“द्योतितान्तः सभैः कुन्दकुप्रलाप्रदतः स्मितैः 1
पितेवाभवत् तस्य शुद्धवर्णा सरस्वती ॥ " [ शि० व० सं० २००९] अर्थः- “कुन्दकुड्मलाग्रदतः तस्य सरस्वती, द्योतितान्तः सभैः स्मितैः स्त्रपितेव शुद्धवर्णा अभवत्" इत्यन्वयः । नारदेनोक्तं शिशुपालवधायेन्द्रसन्देशं युधिष्ठिरप्रेषितं राजसूययज्ञे साहाय्याय निमन्त्रणं च समधिगम्य किमत्र पूर्व कर्तव्य मिति विचाराय उद्धव-बलरामाभ्यां सहोपविष्टः श्रीकृष्णः पूर्वं किमिह विचारणीयं तत्र च किस्म मतमिति प्रकटयितुं वक्तुमुपचक्राम तत्रत्यं वर्णनमिदम् । कविराह - कुन्दं - माघभवः पुष्पविशेषः, तस्य कुड्मलानि - कोरकाणि तेषामग्राणीव दन्ता यस्य तस्य, श्रीकृष्णस्य, सरस्वती-वाणी, भन्तः प्रधाना सभा - अन्तः सभा, सा द्योतिताप्रकाशिता यैस्ताशैः स्मितैः, स्वपितेव क्षालितेव शुद्धवर्णा- स्फुटाक्षरा, अथ च
For Private And Personal Use Only