________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने
अर्थः-मालत्या-जातीकुसुमेन, विमुखः-रहितः, चैत्रः [मासः], पुष्पसंपदां-पुष्पसमृद्धीनां, विकासी-विकासयुक्तः । जातिहीनस्य-ब्राह्मणत्वादिरहितस्य, सुमनसः-देवाः, प्रिया इत्याश्चर्यम् ; अथ च जात्या-मालत्या रहितस्य, सुमनसः-पुष्पान्तराणि प्रियाणीत्यप्याश्चर्यमेव, यस्य मालतीविमुखता तस्यान्यकुसुमप्रिय त्वमाश्चर्यकरं, यथा ब्राह्मण्यादिहीनस्य देवप्रियत्वमिति भावः ॥ चन्दनद्रुमेषु पुष्प-फलस्यानिबन्धो यथा"यद्यपि चन्दनविटपी विधिना फल-कुसुमवर्जितो विहितः । निजवपुषैव परेषां तथापि सन्तापमपहरति ॥" [ शा० ५० भट्टादित्यस्य ]
अर्थ:-चन्दनविटपी यद्यपि विधिना फल-कुसुमवर्जितो विहितः तथापि निजवपुषैव परेषां सन्तापमपनयति । वृक्षस्य पुष्प-फलाभ्यामेव लोकोपकारकत्वं दृश्यते, न तु स्वशरीरेण, शरीरे हि परोपकारोपयुक्ते पुनस्तादृशोपकारकरणस्यावसर एव न स्यादिति यद्यप्यस्ति तथापि विधिना पुष्प-फलराहित्य लम्भितश्चन्दनतरुः परोपकारसामर्थ्यराहित्यमात्मनो वीक्ष्य शरीरमेव मे तर्हि विनियुज्यतामस्मिन् कर्मणीत्यभिसन्धाय स्वशरीरेणैव परसन्तापमपनयतीति तस्य चरमा परोपकारपरतेति ॥ अशोकेषु फलस्यानिबन्धो यथा"देवायत्ते हि फले किं, क्रियतामेतदन्न तु वदामः । नाशोकस्य किसलयैवृक्षान्तरपल्लवास्तुल्याः ॥" [का० मी० अ० १४]
अर्थः-केषुचिद् वृशेषु फलमेव, केषुचित् कुसुमान्येव, केषुचिदुभयं, क्वचिझैकमपीति दैवायत्तमित्यशोकस्य फले दैवायत्ते-दैवाधीने, अशोकेन भन्येन वा तद्गुणलुब्धेन जनेन किं क्रियताम् ?-कस्या अपि क्रियाया अवसर एव न, तुकिन्तु, अत्र-अशोकचर्चायाम् , एतद् वदामः, यत् अशोकस्य किसलयैर्वृक्षान्तरपल्लवा न तुल्याः, फलाभावेऽप्यनन्यसदृशकिसलयैरेवायं माननीय इति भावः॥
सतोऽपि द्रव्यस्थानिबन्धः-यथा कृष्णपक्षेऽपि शुक्लपक्षेण समैव ज्योरखा प्रायो भवति, परन्तु सा न निबध्यते, यथा
"ददृशाते जनैस्तत्र यात्रायां सकुतूहलैः । बलभद्र-प्रलम्बध्नौ पक्षाविव सिताऽसितौ ॥" [का० मी० अ० १४]
For Private And Personal Use Only